SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ इति विशेषावश्यके चारित्र-वीर्ययोर्निवृत्तिरर्थादुक्तैव सूत्रेऽपि "औपशमिकादि-भव्यत्वाभावाच्चान्यत्र केवल सभ्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्यः" इत्यत्र । अत्र हि औपशमिक क्षायोपशमिकौ दयिकभावानां दर्शन ज्ञान- गत्यादीनां, पारिणामिकभावस्य च भव्यत्वस्य, 'अन्यत्र केवल ० ' इत्यादिना चानन्तज्ञान-दर्शन- सम्यक्त्वानामनिवृत्यभिधानात् एकविशेपनिषेधस्य तदितरविशेषाभ्यनुङ्खा फलकत्वाद् दानादिलब्धि चारित्ररूपस्य च क्षायिकभावस्य निवृत्तिर्लभ्यत इति । सिद्धत्वमेव च भावतः सुखमिति विवक्षया न सुखानिदृश्यनुपग्रहः । सुख-सिद्धत्व पोर्निवृत्तिचानुत्पत्तिरूपा प्रतिषिध्यत इति नामसक्तप्रतिषेधः । अत एव च - " सम्मत्त चरिताई साई संतो अ खओवसमिओ अ । दाणाइलद्धिपणगं चरणं पिय खाइओ भावो || १ || ” इति ग्रन्थेन दानादिलब्धिपञ्चक चारित्ररूपस्य क्षायिकभावस्य स्फुटमौपशमिकसम्यक्त्व चारित्रभाववत् सादिसान्तत्वं भाष्यकृतोक्तम् । न चावस्थानाशेन शाश्वतस्यापि चारित्रस्य सादिसान्तत्वमुपपद्यते भवस्थत्वावस्थानाशेन केवलज्ञानस्यापि तवमसङ्गात्, केवलभावेन केवलस्य शाश्वतत्ववादिनाऽप्यवस्थाविशेषनियतनाशो-स्पादोपगमात्; अन्यथा वैलक्षण्यासिद्धेः; तथा च सम्मतिकारः - "जे संघयणाई भवत्थकेवलिविसेसपज्जाया । ते सिज्झमाणसमए ण होंति विगई तओ होइ ॥ १॥ १ तत्वार्थाधिगमसूत्रे १०,४ । २ सम्यक्त्व चारित्रे सादिः सान्तश्च क्षायोपशमिकश्च । दानादिलब्धिपञ्चकं चरणमपि च क्षायिको भावः ॥ १ ॥ ३ ये संहननादिका भवस्थ केवलिविशेषपर्यायाः । ते सिध्यमानसमये न भवन्ति विगतिस्ततो भवति ॥ १ ॥ Jain Educationmational For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy