SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ श्यास्तदभावात्, किन्तु योगस्थैर्य तत् । तच्च करणालम्बनसत्प्रवृस्य सन्निवृत्यन्यतर परिणामरूपं, शैलेश्यामपि स्वरूपसत् करणे काये स्थित्वैव सूक्ष्मकाययोगनिरोधात् परम चारित्रोपपत्तिः, सिद्धिगमनसमये च शरीरत्यागात् तदालम्बनचारित्रस्वभावापगमः, दण्डापगमे तदालम्बनदण्डित्वस्वभावापगमवदुपपत्तेः । द्रव्यरूपेणान्वयं तु न वारयामः । न चैवं योगपरिणामरूपत्वात् केवलिनश्चारित्रस्योदयिकत्वं स्यात् लेश्यावदिति वाच्यम्; नामकर्मोदयसव्यपेक्षत्वेऽपि तस्य मोहक्षयप्रधानहेतुकत्वेन क्षायिकत्वेनैव व्यपदेशात् इन्द्रियपर्याप्त्युदयजन्येऽपीन्द्रिये प्रधानक्षयोपशमहेतुकत्वेन क्षायोपशमिकत्वेनैव व्यपदेशवत् । अत एव न कर्मकृतभावत्वेन तस्य धर्मत्वानुपपत्तिः, क्षायिकत्वेन तदुपपतेः । न चैवं स्वरूपत आश्रवत्वमप्यस्य शङ्कनीयम्; योगस्य तथात्वेऽपि योगनिर्गतपरिणामरूपस्य तस्यातथात्वात् । अपि च, प्राक्तनं चारित्रमेवोत्कृष्यमाणं क्षायोपशमिकादिभावं परित्यज्य क्षायिकभावेन परिणमते, न तु निर्मलीभवदस्त्रमिव प्रागवस्थित स्वरूपात् प्रच्यवते, संज्ञान्तरोपनिबन्धस्य तस्यागानियतत्वात् । प्राक्तनं च तद् मूलगुणविषय योगस्थैर्यमेव शुभवर्यरूपं दृष्टम्, वज्रस्थानीयस्य तस्य ज्वलनजनितोपतापरूपोत्तरगुणास्थिर भावमूर्तिकातिचारादिना भङ्गायोगात् इत्थमेत्र वक्रजडानां चण्डानां च चण्डरुद्रप्रभृतीनां तदुपपत्तेः न तु शुद्धोपयोगरूपम्, आत्म स्थैर्य रूपं वा तदोक्तातिरिक्ततदसिद्धेः, उपयोगरूपत्वे चारित्रस्य जिनानामुपयोगत्रयादिप्रसक्त्या व्यवस्थाविवाच्च । शुभवीर्यरूपं च तत् करणनिमित्तकमवाहपतित - रिणामरूपत्वाद् निमित्तेन सहैव नश्यति । न चैवं केवलज्ञानस्यापि शरीरनिमित्तकत्वात् तन्नाशेन सह नाशप्रसङ्गः तथाच जैनमतस्य बाह्यमतादविशेषः स्यादिति शङ्कनीयम्; तत्रापेक्षामात्रेण शरीरस्य हेतुत्वेऽप्यालम्बनतयाऽहेतुत्वात् । इष्यते हि Jain Education tional For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy