SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ तथाहि ज्ञानयोगस्य योगीन्द्रैः पराकाष्ठा प्रकीर्तिता।शैलेशीसंज्ञितं स्थैर्य ततो मुक्तिरसंशयम्॥२३॥ ज्ञानयोगस्य-शुद्धतपोरूपस्य, परा काष्ठा- उत्कृष्टा कोटिः, प्रकीर्तिता, शैलेशीसंज्ञितं- शैलेशो मेरुस्तद्वन्निश्चलावस्था शैलेशः, शीलेशो वा भगवांस्तस्येयमन्यशीलशाल्यवस्थातिशायिन्यवस्था शैलैशी, सैव संज्ञा यौगिकी समाख्या जाता यस्य तत् , स्थैर्यम्- निवृत्तियत्नरूपं परमवीर्यम् । न चैवमयं न ज्ञानयोग इति शङ्कनीयम् । ज्ञानस्यावस्थारूपत्वात् शैलेश्याः , पाकरक्तताया इव घटस्य । ततः- शैलेश्यां काष्ठामाप्ताज्ज्ञानयोगात् , असंशयं हवपञ्चाक्षरोद्गरणमात्रकालेन मुक्तिर्भवति ॥ २३ ॥ _ तस्य धर्मत्वादि साधयन्नाहधर्मस्तच्चात्मधर्मत्वान्मुक्तिदःशुद्धिसाधनात्। अक्षयोऽप्रतिपातित्वात्सदा मुक्तौ तथास्थितेः।। तच्च-शैलेशीसंज्ञितं स्थैर्य च, धर्मः, आत्मधर्मत्वात्- आत्मस्वभावत्वात्, शुद्धज्ञानवत् : मुक्तिदः- निर्वाणप्रदः स च धर्मः, शुद्धिसाधनात्- परमनिर्जरोत्पादनात् । तथा, अक्षयः- शाश्वतः, अप्रतिपातित्वात्- अनश्वरत्वात् । अनश्वरत्वं च सदा-नित्यम् , मुक्तौ तथास्थितेः- मुक्तस्य स्थिरभावेनावस्थानात् , स्थैर्यनिवृत्तावस्थैर्यस्य पुनरुन्मजनापत्तेः ।। २४॥ न चैतदनार्षमित्याह Jain Educati o nal For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy