________________
Jain Education
ततः स्वात्मनैव काययोगमचिन्त्यवीर्यमभावाद् निरुन्ध्य समुच्छिन्नक्रियाऽनिवृत्तिसंज्ञं चतुर्थशुक्लध्यानभेदं ध्यायति ।
अमनस्कत्वात् कथं केवलिनो ध्यानम् । इति पर्यनुयोग एवं प्रत्यभिदधति- 'यथा कुलालचक्रे भ्रमणनिमित्तदण्डाद्यभावेऽपि पूर्वाभ्यासाद् भ्रमणम्, तथा मनःप्रभृतिसर्वयोगोपरमेऽप्ययोगिनो ध्यानं भवति । तथा, यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनः सद्भावादयोगिनो ध्यानम् । यद्वा, ध्यानकार्यस्य कर्मनिर्जरणस्य हेतुत्वाद् ध्यानं तदुच्यते, यथा पुत्रकार्यादपुत्रोऽपि पुत्र उच्यत इति । अथवा, हर्यादिशब्दवद् ध्यानशब्दस्य नानार्थत्वाद् ध्यानं तत् ; तथाहि - 'ध्यै चिन्तायाम् ' 'ध्यै काययोगनिरोधे' 'ध्यै अयोगित्वे' वदन्ति हि --
"निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृता लोके पाठस्तेषां निदर्शनम् ॥ १ ॥” इति ।
जिनागमाद्वाऽयोगिनो ध्यानम् इति । अत्र प्रथमो हेतुः कारणोपपत्तये, पूर्वसंस्काररूपत्वनपायात् द्वितीयो लक्षणोपपत्तये, भावमनः स्थैर्य रूपलक्षणोपपत्तेः तृतीयो व्यवहारोपपत्तये; चतुर्थः शब्दार्थोपपत्तयेः पञ्चमश्च प्रमाणोपपत्तय इति द्रष्टव्यम् । वस्तुतः सुदृढप्रयत्नव्यापारविद्यमानयोगनिरोधानन्तरत्वमनुगतं ध्यानलक्षणम् ; सुदृढत्वं च जातिविशेषः, तेन न समुद्धातादावतिव्याप्तिः तथा च भाष्यकारः -
"सुदढप्पयत्तवावारणं णिरोहो व विज्जमाणाणं । झाणं करणाण मयं ण य चित्तणिरोहमेत्तागं ॥ १ ॥”
१ सुदृढप्रयत्नव्यापारणं निरोधो वा विद्यमानानाम् । ध्यानं करणानां मतं न च चित्तनिरोधमात्रकम् ॥ १ ॥ २ विशे० सिद्धनमस्कारप्रकरणे गाथा ४५ ।
ational
For Private & Personal Use Only
www.jainelibrary.org