________________
शास्त्रवार्ता -
समुच्चयः । ||३३८||
Jain Education I
क्रमः - प्रथमसमये स्वदेहतुल्यविष्कम्भ मूर्ध्वमवथायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकारं केवली करोति, द्वितीयसमये तु तमेव दण्डं पूर्वापर दिग्द्वयमसारणात् पार्श्वतो लोकान्तगामिनं कपाटमित्र कपाटं करोति, तृतीयसमये तु तदेव | कपाटं दक्षिणोत्तरदिग्द्वय प्रसारणाद् मन्थानमिव मन्थानं करोति लोकान्तरमापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति । चतुर्थसमये त्वनुश्रेणि गमनाद् मन्थान्तराण्यपूरितानि सह लोकनिष्कुटैः पूरयति । ततश्च सकलो लोको जीवप्रदेशैः पूरितो भवति । लोकपूरणश्रवणादेव हि परेषामात्मवित्ववादः समुद्भूतः तथा चार्थवादः- “विश्वतश्चक्षुरुत विश्वतोमुख विश्वतोवारुत विश्वतःपात्" इत्यादि । तदा चासौ भवति समीकृतभवोपग्राहिकर्मा, विरलीकृतार्द्रशाटिकादिज्ञातेन क्षिप्रं तच्छोपोपपत्तेः । ततः पश्चमसमये मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति । षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचात् । सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् | अष्टपसमये दण्डमुपसंहृत्य शरीरस्थ एव भवतीति ।
समुद्वातकाले च मनोवाग्योगव्यापारप्रयोजनाभावात् काययोगस्यैव केवलस्य व्यापारः । तत्रापि प्रथमा-ष्टमसमययोरौदारिककायप्राधान्यादौदारिककाययोग एव द्वितीय षष्ठ- सप्तमेषु समयेषु पुनरौदारिकाद् बहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिक- कार्मणमिश्रः, तृतीय- चतुर्थ पञ्चमेष्वौदारिकाद् बहिर्वहुतरप्रदेशव्यापारादसहायकार्मणयोग एवं परित्यक्तसमुद्धातच कारणवशाद् योगत्रयमपि व्यापारयति यथाऽनुत्तरसुरपृष्टौ मनोयोगं सत्यं वाऽसत्यामृपं वा प्रयुङ्क्तेः एवमामन्त्रणादौ वाग्योगमपि काययोगमपि फलकमत्यर्पणादाविति । ततोऽन्तर्मुहूर्तेन योगं निरुन्धानस्तृतीयं शुक्लध्यानभेदं परिसमापयति ।
For Private & Personal Use Only
सटीकः । स्तवकः ।
॥ ९ ॥
॥३३८॥
www.jainelibrary.org