________________
ततः स सर्वविद् भूत्वा भवोपग्राहिकर्मणः । ज्ञानयोगात्क्षयं कृत्वा मोक्षं प्राप्नोति शाश्वतम् ।
ततः केवललाभोत्तरम्, सः- महात्मा, सर्वविद् भूत्वा - केवलीभूय, ''भूत्वा घटस्तिष्ठति' इत्यादाविवोत्पश्यनन्तरं निष्ठा' इति व्यवहारनयाभिप्रायादित्यमुक्तिः, भवोपग्राहि कर्मणः- जात्यपेक्षयैकवचनम्, भवोपग्राहिणां वेदनीयाऽऽयु-र्नामगोत्राणाम्, ज्ञानयोगात् - समुद्धात चरमशुक्लद्वयध्यानरूपावस्थाविशिष्टज्ञानरूपादेव योगात्, क्षयं कृत्वा - आत्मनः पृथग्भावं विधाय, शाश्वतम् - अपुनरावृत्तेर्नित्यम्, मोक्षं महानन्दम् प्राप्नोतिः तथाहि - अयं खलु भगवान् क्षायिकज्ञान-दर्शनचारित्र-वीर्यातिशयसंपत्समन्वितो जघन्यतोऽन्तर्मुहूर्तम्, उत्कर्षतश्च देशोनपूर्वकोटिं भवोपग्राहि कर्मवशाद् विहरन् यदाऽन्तर्मुहूर्तपरिशेषायुष्कस्तत्तुल्यस्थितिक नाम - गोत्र वेदनीयश्च भवति तदा मनो-बाग-बादरकाययोगनिरोधादुपगमसूक्ष्म काययोगस्तृतीयं सूक्ष्मक्रियाऽमतिपाति शुक्लध्यानमध्यास्ते; तथाहि - प्रथमं वादरकाययोगेन वादरौ वाग्-मनसयोगौ निरुणद्धि । ततः सूक्ष्मका ययोगेन वादरकाययोगं निरुणद्धिः सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात् । न हि धावन् वेपथुं वारयतीति । ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययोगेन सूक्ष्मौ वाग्-मनसयोगौ निरुणद्धीति । यदा त्वन्तर्मुहूर्तायुष्काधिकतर स्थितिशेकर्मत्रयो भवत्यसौ, तदा तत्समीकरणाय स्थितिघात - रसघाताद्यर्थं समुद्धातं करोति; तदुक्तम्
Jain Educatiomational
“यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्धातं भगवानथ गच्छति तत्समीकर्तुम् ॥ १ ॥” सम्यगू- अपुनर्भावेन, उत्- मावल्येन हननं समुद्धातः- शरीरावू बहिर्जीवप्रदेशानां निःसारणम् । अयं चात्र
For Private & Personal Use Only
www.jainelibrary.org