SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः । ॥३३७॥ ञ्जने, व्यञ्जनाद् वार्थे, मनोयोगात् काययोगे वाग्योगे वा, काययोगाद् मनोयोगे वाग्योगे वा, वाग्योगाद् मनोयोगे काययोगे वा संक्रामतीति । न चैवमर्थ- व्यञ्जनयोर्योगान्तरेषु संक्रमणात् कथं मनःस्थैर्यम्, तदभावाच्च कथं ध्यानत्वम् । इत्याशङ्कनीयम्, एकद्रव्यविषयत्वेन मनः स्थैर्य संभवात्, ध्यानत्वाविरोधात् । न चान्यद्रव्यचिन्तानन्तरितत्वरूपचिन्ता स्थैर्योपपत्तावपि योगान्तरानन्तरितत्वरूपयोगस्थैर्यानुपपत्तिरिति शङ्कनीयम्, तदभावेऽपि ध्यानत्वनियतप्रयत्रदार्व्यस्य गात्र दृष्टिपरिस्पन्दाभावाद्यभिव्यङ्गयातिशयरूपस्यानपायात् उक्तविशेषस्य च द्वितीयभेदनियतत्वादिति । तदिदं केषाञ्चिदेकयोगभाजां भङ्गश्रुतं पांच योगत्रयभाजामपि न विरुध्यत इति । ततोऽसावासन्न कल्याणः समुत्खातमचुरापायो द्वितीयं शुलध्यानमवलम्बत एकत्ववितर्कसविचाराख्यम् । इदं ह्येकपरमाण्वादावेकमेव पर्यायमालम्व्यत्वेनादायाऽऽहितान्यतरैक योगबलमाश्रितव्यतिरिक्ताशेपार्थ-व्यञ्जन- योगसंक्रमविषयचिन्ताविक्षेपरहितमत्यन्तमेकाग्रम्, आद्यशुक्लेऽर्थ - व्यञ्जन-योगेषु यथासंक्रमक्रमं निवृत्यभ्यासादेनुस र्वविषयेभ्यो व्यावर्त्यणुमात्रे मनसो धरणात्, मान्त्रिकेण मन्त्रबलात् सर्वाङ्गगतस्य विषस्य देशदेशे घरणवत् ; सुकरं हि ततस्तदपनयनमिति । अत्र खलु ज्ञान-दर्शन- चारित्राण्येकीभावं प्रकर्षे च यान्ति, बोध श्रद्धाना - नाथवरूपत्वात् फलाभिमुखत्वात्, वीतरागभावाच्च । ततोऽस्मात् परमनिर्जरारूपाद् घातिकर्मचतुष्टयक्षये परमशुक्लध्यानद्वयस्याग्रे माप्यत्वाद् ध्यानान्तरे वर्तमानः केवली भवति कृतकृत्यः सकलसुरनिकायनायकपूजितचरणाम्भोज इति ॥ २० ॥ ततः किम् ? इत्याह १ ख ग घ च. 'कर्म' । Jain Education International २ कु. ख. ग, घ च 'दत्तस' । For Private & Personal Use Only सटीकः । स्तबकः । ॥ ९ ॥ ॥ ३३७ ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy