________________
कम
BMalaiSRAToTOOOOOOOO
प्रवर्तमान एवं च यथाशक्ति स्थिराशयः। शुद्धं चारित्रमासाद्य केवलं लभते क्रमात्॥२०॥
एवं च- उक्तेन प्रकारेण मुक्तौ रागप्रतिबन्धात् , यथाशक्ति- स्वशक्त्यनुसारेण, प्रवर्तमानः, स्थिराशयःदुर्लेश्याऽक्षोभ्यप्रशस्तपरिणामः, शुद्ध- निर्मलम् , चारित्रमासाद्य, क्रमान- ध्यानारोहपरिपाटीतः, केवलं लभते । तथाहिलेश्याविशुद्ध्या, भावनाहेतुकसाम्यहेतुकराग-द्वेषजयेन वा कृतमनःशुद्धिमैत्री प्रमोद-कारुण्य-माध्यस्थ्यपवित्रितचित्तो भावितात्मा पर्वतगुहा-जीर्णोद्यान-शून्यागारादौ मनुष्यापातविकलेऽवकाशे मनोविक्षपनिमित्तशून्ये सत्वोपघातरहित उचिते शिलातलादौ यथासमाधानं विहितपर्यङ्काद्यासनः "जोगाण समाहाणं जह होइ तहा पयइअव्वं" इति वचनात् , मन्दमन्दमाणापानमचारः, अतिप्राणनिरोधे चेतसो व्याकुलत्वेनैकाग्रतानुपपत्तेः, “ऊंसासं ण णिरुंभइ" इत्यादिवचनपामाण्यात् , निरुद्धलोचनादिकरणमचारो हृदि ललाटे मस्तकेऽन्यत्र वा यथापरिचयं मनोवृत्ति प्रणिधाय प्रसन्नवदनः पूर्वाभिमुख उदङ्मुखो ध्यायति धर्म्यम् । तत्र बाह्याध्यात्मिकभावानां याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यम् । तच्च द्विविधम्- बाह्यम् , आध्यामिकं च । तत्र सूत्रा-ऽर्थपर्यावर्तन-दृढव्रतता-शीलानुराग-निभृतकाय-वाग्व्यापारादिरूपं बाह्यम् । आध्यात्मिकं चात्मनः स्वसंवदनग्राह्यम् , अन्येषामनुमेयम् । तच्च तत्वार्थसंग्रहादौ संक्षेपतश्चतुर्विधमुक्तम् । अन्यत्र दशविधम् , अपायो-पाय-जीवा-जीवविपाक-विराग-भव-संस्थाना-ऽऽज्ञा-हेतुविचयभेदात् ।
योगानां समाधानं यथा भवति तथा प्रयतितव्यम् । २ उच्छ्रासं न निरन्ध्यात् ।
Jain Education
For Private
Personal use only