________________
शास्त्रवार्ता एतदेवानिष्टवियोगोत्तरफललाभाद् निदर्शनान्तरेण समर्थयन्नाह
Ho सटीकः। समुच्चयः
स्तबकः। ३३५व्याधिग्रस्तो यथारोग्यलेशमास्वादयन्बुधः। कष्टेऽप्युपक्रमे धीरः सम्यकप्रीत्या प्रवर्तते॥१८॥
॥९॥ . व्याधिग्रस्त:-विषमज्वरादिरोगपीडितः पुरुषः, यथा कुतश्चिदुपक्रमात् , आरोग्यलेशं- स्वल्पमपि नीरुगभावम् , आ. खादयन्- अतिपिपासितजललवास्वादमायमनुभवन् , बुधः- हिता-ऽहितज्ञः, कष्टेऽपि-शरीरोपतापकारिण्यपि, उपक्रम- तप्तकटुकौषधपानादौ निःशेषव्याधिघातनसमर्थे, धीरः- अक्षोभ्यसत्त्वः, सम्यक्पीत्या- उपायविषयदृढेच्छापतिबन्धेन, प्रवर्तते, भाव्यारोग्यस्वभावत्वात् ।। १८ ॥
दान्तिकयोजनामाहसंसारव्याधिना ग्रस्तस्तद्वज्ज्ञेयो नरोत्तमः।शमारोग्यलवं प्राप्य भावतस्तदुपक्रमे ॥१९॥
संसारख्याधिना- संसाररोगेण, ग्रस्तः- पीडितः, नरोत्तमः- आसन्नभव्यः, तद्वज्ज्ञेयः प्रवृत्तिं प्रतीत्य । किं कृत्वा, कच? इत्याह- शमारोग्यलवम्- अपूर्वकरणाशुपक्रमजनितमिथ्यात्वा-ऽनन्तानुवन्धिकषायोपशमजनितं शमारोग्यस्य लेशम् , प्राप्य, भावतः- फलाभिष्वङ्गात् , तदुपक्रमे- अशेषसंसारख्याध्यौषधभूते तीब्रानुष्ठाने ॥ १९ ॥
॥३३५॥ ततः किम् ? इत्याह
Jain Education InHeameriona
For Private & Personel Use Only
alwww.jainelibrary.org