________________
शास्त्रवार्ता
समुच्चयः ।
॥३३४ ॥
करोति । कुतः ? इत्याह- मुक्तौ दृढानुरागत्वात्- पारमार्थिकाभिलाषभावातू; अतीव्रस्त्वभिलाप आलस्याद्युपहतचित्तान परमार्थतोऽभिलाष एव न, अन्यथा प्रवृत्त्यादिसिद्धेरिति विभावनीयम् । निदर्शनमाह- कामीव तीव्रकामाविष्ट इव, वनितान्तरे - अभिलषित तरुणी विशेषे । यथा हि वनितान्तरेऽनुरक्तस्तदाप्तये प्रवर्तमानः शीतादि न गणयति तथा मुक्तावनुरक्तोऽपि तदाप्ये प्रवर्तमानो न तद् गणयति, उपायानुषङ्गिशैत्यादौ बलवद्वेषाभावेन बलवदनिष्टानुवन्धित्वज्ञानकृतप्रवृत्तिप्रतिघाताभावादिति निगर्वः ॥ १५ ॥
Jain Education International
छ
तत्त्वतस्तत्र चेतः पीडारूपानिष्टाननुवन्धित्वाद् दुष्करत्वमेव नास्तीति साधयन्नाह -
उपादेयविशेषस्य न यत्सम्यक्प्रसाधनम्। दुनोति चेतोऽनुष्टानं तद्भावप्रतिबन्धतः ॥१६॥
उपादेयविशेषस्य - सम्यग्विदितोत्कृष्टगुणस्य चिन्तामणिरत्नादेः, यत् - यस्मात् सम्यक् प्रसाधनम् - अव्यभिचार्यपायभूतं रोहणाचलविषमप्रदेश पर्यटनादिकम्, अनुष्ठानं कर्म कायोपतापजनकमपि तद्भावप्रतिबन्धतः - तस्मिन्नुपादेयविशेषेऽमतिबद्धेच्छाजनितादन्तराहादभावप्रतिबन्धात् चेतो न दुनोति, मानससुखसच्चे तदनुपमर्देन मानस दुःखोत्पादायोगात् । न च शारीरदुःखसच्चे मानससुखमपि विरुद्धम्, श्रमादिव (म) तोऽप्यप्रतिहतफलेच्छस्यान्तर्वहि रेकदैव सुख-दुःखानुभवदर्शनात् । न चैकदोभययोगक्रियाविरहः, अभिन्ने विषये त्रयाणामपि योगानां क्रियायौगपद्यस्य दृष्टत्वात् इष्टत्वाच्च, भङ्गिकश्रुतनामाण्यात् । न च तदा विषयाभावादेव सुखाभावः, बाह्यैरपि चतुर्विधस्य सुखस्य व्यवस्थापनात् तथाहि किञ्चिदाभ्यासिकं सुखम्, यथा
For Private & Personal Use Only
सटीकः । स्तचकः ।
॥ ९ ॥
॥ ३३४॥
www.jainelibrary.org