SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ SERPREPAR "खुहिअस्स जहा खणमवि विच्छिन्नइ व भोजणे इच्छा । एवं मोक्खट्टीणं छिज्जइ इच्छा ण कजम्मि ॥१॥" विशुद्धात्मा विवेकजलगलितानादरमलत्वात् , यथागमम्- आगमोक्तोत्सर्गा-पवादादियोग्यधृतिशक्त्याधनतिक्र| मेण । व्यवस्थित खल्लागमे- आतुरादेरपि पीडाद्यनुभवनिमित्तसंक्लेशाभावे, आवश्यकयोगापरिहाणौ च चिकित्साऽकरणादि, अन्यथा तु पुष्टालम्बनेन तत्करणादि, स्फोरयतोऽपि च मनोधृतिबलं कदाचिदत्यन्तभनकायशक्तिकस्य सतो यथाभणिताचरणसीदनेऽपि मुक्तकूटचर्यस्य शुद्धत्वमेवेति । यस्त्वपरिशीलितगुरुकुलवासोऽनालोच्यैवागमं स्वशक्तिमतिक्रम्यैव व्याप्तो भवति स्वकृत्यऽसाध्ये महति कार्ये, स तु संक्लेशोदयादविधिना शरीरं पातयित्वाऽनेकभवेषु तदनुबन्धदोषं प्राप्नुयादिति । ततो यथाक्रमं शक्त्याधनतिक्रम्यैव प्रवर्तेत ॥ १४ ॥ इत्थमेवाज्ञाश्रद्धया तीव्रसंवेगादभ्यासाच क्लिष्टकर्मविगमात् तीत्रानुष्ठानयोग्यो भवति । अत एव प्रायः परिशीलितश्रावकप्रतिमादिक्रमस्यैव सदा यतिधर्मेऽधिकारः, विशिष्य तु दुःपमायामित्यन्यत्रोक्तमित्यभिप्रेत्याहदुष्करं क्षुद्रसत्त्वानामनुष्ठानं करोत्यसौ । मुक्तौ दृढानुरागत्वात्कामीव वनितान्तरे॥१५॥ असौ- विशुद्धात्मा, क्षुद्रसत्त्वानां- संसाराभिनन्दिनामपरमार्थदर्शिनां धर्मपराङ्मुखानां क्लीवानां कापुरुषाणाम, दुष्करम्- कर्तुमशक्यम् , अनुष्ठानं- पूर्णाहिंसादिपालनाय परीपहादिजयरूपं, विशिष्टनिर्जरायै भिक्षुपतिमाघभिग्रहरूपं वा, क्षुधितस्य यथा क्षणमपि विच्छिद्यते नैव भोजने इच्छा । एवं मोक्षार्थिनां छिचत इच्छा न कार्ये ॥१॥ Jain Education national For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy