SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ शाखवार्ता सटीकः। स्तबकः। समुच्चयः। ॥३३३॥ उपायचिन्तनमाहहेतुर्भवस्य हिंसादिर्दुःखाद्यन्वयदर्शनात् । मुक्तेः पुनरहिंसादिाबाधाविनिवृत्तितः॥१३॥ हेतुः- उपायः, भवस्य- संसारस्य, हिंसादिः- हिंसा-ऽनृत-मिथ्यात्व-क्रोधादिः । कुतः ? इत्याह- दुःखाद्यन्वयदर्शनाव- हिंसादिप्रवृत्तौ विषयपिपासादिदुःखानुबन्धोपलम्भात् , दुःखैकमये संसारे तद्धेतुत्वौचित्यात् । मुक्तः पुनरहिंसादिःअहिंसा-सत्य-सम्यक्त्व-क्षान्त्यादिः, हेतुः। कुतः ? इत्याह-व्याबाधाविनिवृत्तितः- अहिंसादिप्रवृत्तौ विषयपिपासादिपीडानिवृत्तिरूपगुणानुबन्धोपलम्भात् , गुणैकमय्यां मुक्तौ तद्धेतुत्वौचित्यात् ॥ १३ ॥ एतचिन्तनफलमाहबुदैवं भवनैर्गुण्यं मुक्तेश्च गुणरूपताम्। तदर्थ चेष्टते नित्यं विशुद्धात्मा यथागमम्॥१४॥ एवम्- उक्तरीत्या, भवस्य-संसारस्य, नैर्गुण्य-दोषैकमयत्वम् । मुक्तेश्च गुणरूपता-गुणैकमयत्वम् , बुद्धा, अशुद्धौदयिकादिभावत्वात् संसारस्य, मुक्तेश्च शुद्धक्षायिकादिभावरूपत्वात् , एतद्बोधश्च तदुपायबोधोपलक्षणम् । तदर्थ- मुक्त्य| र्थम् , चेष्टते- भवहेतुहिंसादिप्रतिपक्षिष्वहिंसादिषु तदपायेषु प्रवर्तते, नित्यं- निरन्तरम् , क्षुधितस्य भोजनेच्छाया इव मुमुक्षोमोक्षेच्छाया अविच्छेदेन तदुत्साहस्य शाश्वतत्वात् । अबोचाम च- सामाचारीप्रकरणे- . ॥३३॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy