________________
सुखाय तु-सुखायैव, परं- केवलम् , अत्राग्रिमपदत्रयेण सांसारिकसुखविपर्ययहेतुगर्भविशेषणत्रयमाह- जन्मादिक्लेशवर्जितः- कदाचिदपि जन्मादिक्लेशैरस्पृष्टः, तेनेन्द्रियाधभावाद् न तत्पतिकारमात्रत्वम् । तथा, भयशक्त्या- आगामिदुःखान्तरोपनिपातबीजभूतया खयोग्यतया, विनिर्मुक्तः- त्यक्तः, तेन दुःखाननुषङ्गित्वमुक्तम् । तथा, सदा-निरन्तरम् , व्याबाधावर्जितः- औत्सुक्यरूपात्मस्वभावबाधाकलङ्कविकलः, तेन दुःखकारणजातीयकर्माजन्यत्वगुक्तम् ।
आत्मनो हि गलितौत्सुक्यबोधात्मा शाश्वतश्चिदानन्दः स्वभावोऽस्ति । स च सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपावरणेनाच्छाद्यते, शीतांशोरिवामृतमयप्रकाशस्वभावोऽभ्रेण, स्वाभाविकान्यथाभूतपरिणतिजननात् , अन्यथाऽऽवारकत्वानुपपत्तेः। सेन्द्रियदेहायपगमे चायनसिद्ध एवायमात्मनः स्वभाव आविर्भवति, अभ्रापगम इव शीतांशोः । उपलभ्यते च संसारदशायामपि समतृणमणि-लोष्टुकाञ्चनस्य विशिष्टध्यानावस्थितस्य मुमुक्षोवैराग्यभावनया परमालादानुभव उपायप्रवृत्तिक्लेशपरिपन्थीति । तस्यैव भावनावशादुत्तरोत्तरावस्थामासादयतः परमकाष्ठागतिः संभाव्यते । इति सिद्धो मुक्तावेव सुखविश्रामः, तदुपादानोपशमप्रभवसुखस्यापि तत्त्वतस्तद्रूपत्वात् । न झुपादानो-पादेययोरत्यन्त(म?)भेदो यौक्तिकः, तदिदमाहुद्धाः
"निर्जितमद-मदनानां वाक्-काय-मनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥१॥” इति ।
न चैवमन्यदपि सुखं मुक्तिसुखोपादानमस्त्विति कुचोद्यमाशङ्कनीयम्; तृषितसुखस्य तदुपादानवे मुक्तावपि तृडनुवेधप्रसङ्गात् । अतो भिन्नजातीयमेव तात्त्विक सुखं मुक्तावुत्कर्षप्राप्तमिति श्रद्धेयम् ॥ १२ ॥
प्रशमरतिप्रकरणे श्लो० २३८ ।
AMITRA
SHARE
Jain Education
For Private & Personal use only
www.jainelibrary.org