________________
शास्त्रवार्तासमुच्चयः । ॥३३१॥
Jain Education
शास्त्रश्रवणात् तद्रतुल्यमर्थग्रहणम्, प्रीणयति चान्तरात्मानं तत् । ततश्च गुड-खण्ड-शर्करोपमदुपध्याधिमात्र संवेगोत्पत्तिः स क्रियाssदरादिलिङ्गा | संवेगमहोदधेर्निस्यन्दभूतं च वक्ष्यमाणचिन्तनमिति विभावनीयम् ॥ १० ॥
यच्चिन्तयति तदाह
जन्ममृत्युजराव्याधिरोगशोकायुपद्रुतः । क्लेशाय केवलं पुंसामहो ! भीमो महोदधिः ॥११॥
जन्म- मातृशरीरे संक्रमणम्, मृत्युः- आयुःक्षयः, जरा- वयोहानिः व्याधिः- क्षयादि, रोग:- ज्वरादि, शोक:इष्टबियोगादिजन्य आक्रन्दाद्यभिव्यङ्गयः परिणामः, आदिना वध-बन्धादिपरिग्रहः, एतैरुपद्रुतः, तत्स्थानामुपतत्वेऽपि तत्रोपद्रुतत्वमुपचर्यते, गिरिगततृणादीनां दाहेनेव गिरौ दग्धत्वम् ; 'अहो' इत्यपूर्वदर्शनजनिताचर्यार्थी निपातः, भीम:- अतिभयावहः, भवोदधिः- संसारसमुद्रः, पुंसां पुरुषाणाम्, सकलप्राथ्युपलक्षणमेतत् केवलं क्लेशाय - आत्यन्तिकदुःखाय न तु सुखशायापि ।
भवति हि नारकाणामत्र त्यातिशयितशीतोष्णाद्यनन्तगुणशीतोष्णादिवेद्या क्षेत्रप्रत्यया भवस्याभाव्यात् महिष-शृङ्गयादीनामिवोदीर्णातिमत्सराणां दन्तादन्ति नखानखि- केशाकेशि-खड्गाखड्गि- कुन्ताकुन्ति-मुष्टामुष्टि-दण्डादण्डिमबलमहारेण परस्परोदीरिता, व्याधादिकृता मृगादीनामित्र संक्लिष्टसुरोदीरिताऽपि वेदना कुन्ताग्रोपर्यारोपण-कूटशाल्मलिवृक्षाघः स्थापन- संतप्तत्रपुपान-वैतरणीवाहनादिजनिता; न तेषां नेत्रनिमीलनसमयमपि सुखमस्ति । को हि नाम तद्वेदनां विशिष्य विना सर्वज्ञं वक्तुमष्ठे ? |
For Private & Personal Use Only
सटीकः ।
स्तवकः । ॥ ९ ॥
॥३३१॥
www.jainelibrary.org