SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ स:- सम्यग्दृष्टिः, अस्य- भवोदधेः, यदूपं- वणितस्वरूप विषयतिमिरदोषादज्ञानिनाऽदृश्यमानम् , शङ्खचैत्यमिव कामलोपहतदृशा, पश्यति, तत्वतो यथावस्थितस्वरूपेण । केन? इत्याह- सम्यक्शास्त्रानुसारेण-परमार्थप्रतिपादकवीतरागप्रवचनैकदत्तदृष्टितया, बुद्धिरेव मतिज्ञानावरणीयक्षयोपशमप्रमूतः सद्ग्रन्थग्रहणपटुर्मेधाख्यपरिणाम एव चक्षुरनुपहतलोचनं तेन | पापश्रुतावज्ञाकारिणी खलु सम्यक्शास्त्रानुसारिणी बुद्धिः, प्रेक्षावदातुरस्योत्तमौषध इव तद्वतः सद्ग्रन्ध एव ग्रहणादरात् । तेन पापश्रुतजनितकुवासनानिद्रया व्यवधानाभावाद् मोहदोषोपहतेश्च पश्यति निरन्तरमेवैतद्वांस्ताविकं संसाररूपम् । दृष्टान्तमाह-रूपं- शङ्खचैत्यादिकम् , नष्टाक्षिरोगवत्- गलितनयनगतपित्तादिदोषवत् । रोगनाशश्च रोगान्तरप्रतिरोधस्योपलक्षणम् , इत्थमेव निरन्तरं रूपस्वरूपसम्यग्दर्शनसिद्धेः । स्यादेतदेकस्यैव बुद्धिगुणस्य कथं पूर्वदोपनाशकत्वम् , उत्तरदोषप्रतिबन्धकत्वं च । मैवम् , सामर्थ्यविशेषादुपपत्तेः; दृष्टं ोकस्यैवोष्णस्पर्शस्य पूर्वशीतस्पर्शनाशकत्वम् , भाविशीतस्पर्शोत्पत्तिप्रतिबन्धकत्वं चेति ॥९॥ ततो यत् करोति तदाहतद् दृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना।भावगर्भ यथाभावं परं संवेगमाश्रितः॥१०॥ तत्- भवोदधिरूपम् , दृष्टा चिन्तयति, एवं-वक्ष्यमाणम् , प्रशान्तेन-क्रोधाद्यनाकुलेन, आन्तरीत्मना, भावगर्भम्-भावEO नाभिमुखोपयोगसारम् , यथाभावम् - यथार्थतत्वम् , परम् - उत्कृष्टम् , संवेगमाश्रितः । भवति हि शुष्काचर्वणमायादध्यात्म ख.ग.प.च. 'पस'। २ क.ख.ग.प.च. 'रा भा'। Jain Education G ational For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy