________________
शास्त्रवार्तासमुच्चयः ।
॥ ३३० ॥
र्शनसंयुतः फलपर्यन्त हेयो- पादेयविवेकवान् प्रतिज्ञातप्रनृत्यनिर्वहणे हि न सम्यक्त्वमिति समयवेिदः तत्रश्रद्धानेन श्रवणेच्छारूपसुश्रूषोत्तर श्रोत्रोपयोगरूपश्रवणोत्तरशास्त्रार्थमात्रोपादानरूपग्रहणोत्तराऽविस्मरणरूपधारणोत्तर मोह-संदेह विपर्ययव्युदासप्रधानज्ञानरूपविज्ञानोत्तरविज्ञातार्थावलम्बन तथाविधवितर्क रूपोहोत्तर प्रत्यवायसंभावनानिमित्तोक्तयुक्तिविरुद्धार्थव्या वर्तनात्मकापोहोत्तरेण विज्ञानोहा-पोहानुगमविशुद्धेन 'इदमित्थमेव' इति निश्चयरूपेण तत्त्वाभिनिवेशेन, समारोपविघातकृता चित्तकालुष्यापनायिना मिथ्यात्वमोहनीयादिक्षयोपशमजनितेन चेतःप्रसादेन वा पूतात्मा पवित्राशयःः भवोदधौ मिथ्यात्वागाधजले कषायपातालकलशसंक्रान्तबहलविपाकानिल वेगसमुच्छलर कटुकफलपरिणतिकल्लोले प्रदीप्तविषयतृष्णारूपवडवानलभीषणे नानाविधाविरतिरूपतिमि-तिमिङ्गिलग्रस्तक्षुद्रगुणमीने सानुबन्धपापकर्मरूपमहानद्यावर्त भग्नभव्यधर्म यानपात्रे दुःखशत गिरिग्रावपाते क्रन्ददनेकसच्चनक्रचक्रे संसारसमुद्रे, न रमते, तत्त्वदर्शित्वेन भवावहुमानित्वात्, मागर्जितकर्मोपनीते सुख-दुःखे भुञ्जानस्यापि विषयतृरूपरुच्यभावेन परमार्थतस्तदभोजित्वात् उक्तं च समयसारकृताऽपि - ""सेवंतो वि ण सेवइ, असेवमाणो वि सेवए कोई” इति । लौकिकैरप्युक्तम्- “आहृता हि विषयैकतानता ज्ञानधौतमनसं न लिम्पति" इति ॥ ८ ॥ तदरमणौपयिकमस्य तदर्शित्वमेव व्यनक्ति
स पश्यत्यस्य यद्रूपं भावतो बुद्धिचक्षुषा । सम्यक्शास्त्रानुसारेण रूपं नष्टाक्षिरोगवत् ॥ ९ ॥
१ सेवमानोऽपि न सेवते, असेवमानांऽपि सेवते कश्चित् ।
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तचकः । ॥ ९ ॥
॥३३०॥
www.jainelibrary.org