________________
न्धकत्वात , तद्भवस्थितिहेतुदुरितानां सत्प्रवृत्तिनाश्यत्वेन प्रत्युत नाशार्थिप्रवृत्तौ नाश्यनिश्चयीभूयानुगुणत्वात् , अनतिशयितशमादिना प्रवृत्त्युत्तरमतिशयितशमादिसंपत्तेश्च नान्योन्याश्रयः । यत्तु 'शमादावपि संसारित्वेनैव स्वरूप योग्यत्वाद् मुक्तावपि संसारित्वेन तत्वम्' इति गङ्गेशाकूतम्, तद् न पूतम् , नित्यज्ञानादिमद्भिन्नत्वरूपसंसारित्वापेक्षया भव्यत्वस्यैव लघुभूतस्य तत्त्वौचित्यात् , सर्वमुक्तिनिरासाच्च ।
किञ्च, सर्वमुक्तिसत्त्वेऽपि परस्य कथं पारिव्रज्यादौ प्रवृत्तिः, स्वप्रयत्नं विनैव महाप्रलये भर्गप्रयत्नात् तदुपपत्तिसंभवात् ।। शीघ्रमुक्त्यर्थं तत्प्रवृत्तौ चाकामेनापि परेण तत्स्वरूपयोग्यतावच्छेदकं किञ्चिद् वक्तव्यम् , तदेव चास्माकमपुनर्बन्धकत्वम् । | अथात्मनैव मुक्तौ स्वरूपयोग्यता, ईश्वरे विशेषसामग्यभावाच नातिप्रसङ्गः, शीघ्र मुक्तिहेतूपनिपाताच शीघ्रमुक्तिरिति शीघ्रमु
क्तित्वस्यार्थसिद्धत्वाद् न तत्स्वरूपयोग्यतावच्छेदकं किञ्चित् कल्पनीयमिति न दोष इति चेत् । न, उपादानस्वभावाविशेषेO ऽर्थसिद्धस्याप्युपादेयविशेषस्यानुपपत्तेः, अतिप्रसङ्गात् , 'कस्यचित् कदाचिदेव पारिव्रज्यादौ प्रवृत्तिः' इति नियमस्य हेतुविशेष विना निर्वाहात् । 'अदृष्टविशेषस्तद्धेतुः' इत्युपगमेऽपि नामान्तरेणापुनर्बन्धकत्वाङ्गीकरादिति सर्वमवदातम् ॥ ७ ॥
दर्शनावाप्तौ यत् स्यात् तदाहसति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः। तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ॥८॥
सति चास्मिन्- दर्शने, असौ- तथाभव्यत्वभाजनं जनः, धन्यः, लब्धचिन्तामणिदरिद्रवद् निष्ठितार्थत्वात् , सम्यग्द
Jain Educationpatips
For Private
Personel Use Only
www.jainelibrary.org