________________
शास्त्रवा तो
आद्यगुणावाप्तिरपि निर्गुणस्यैव, क्रियाकाल- निष्ठाकालयोरैक्येन गुणाप्तिकाल एव गुणवश्वसिद्धेः, हेतु-फलयोः पूर्वापरभावस्यासमुच्चयः । तन्त्रत्वात् चरमक्षण एव फलोपहित हेतूपगमात्, दीर्घ क्रियाकालभ्रान्तेर्व्यवहारवासनानिमित्तत्वात्' इत्यपि वदन्ति । ॥३२९ ॥ यदयुपन्यस्तम्- 'अपि च, सर्वमुक्तिसिद्धान्तो नास्ति जैनानाम्' इत्यादि, तदपि न मनोहरम् अभव्यत्वरूपस्यायोग्यत्वस्य भव्या-भव्यत्वशङ्कयैव निवृत्तेः, तस्यास्तद्व्याप्यत्वेन शास्त्रे बोधनात् ; तदुक्तमाचारटीकायाम्- 'अभव्यस्य भव्याभव्यत्वशङ्काया एवाभावात्' इति । एतेन 'सिद्धौ वा संसार्येकस्वभावा एव केचिदात्मान इति स्थिते ' अहमेव यदि तथा स्यां तदा मम विपरीतप्रयोजनं परिव्राजकत्वम्' इति शङ्कया न कश्चित् तदर्थं ब्रह्मचर्यादिदुःखमनुभवेत् इत्युद्रयनोक्तं प्रत्युक्तम् । न च दीर्घतर संसारस्थितिकत्वरूपायोग्यत्वाशङ्कयाऽपि प्रवृत्तिप्रतिरोधः, विषयसुखवैराग्य-यथाशक्तिप्रवृत्तिभ्यामेव तदभावव्याप्यासन्नसिद्धिकत्वनिश्चयात्, तयोरासन्न सिद्धिकत्वव्याप्यत्वेन शास्त्रे बोधात् ; तथा च श्रुतकेवलिवचनम् —
"अन्नकालभवसिद्धिअस्स जीवस्स लक्खणं इणमो । विसयसुहेसु ण रज्जइ सव्वत्थामेण उज्जमइ ॥ १ ॥”
न च तथाप्रवृत्तौ तच्छङ्कानिवृत्तिः, तस्यां च संपन्नायां प्रतिबन्धकाभावसाम्राज्यात् तथा प्रवृत्तिरित्यन्योन्याश्रय इति शङ्कनीयम्; पूर्वप्रवृत्तेः कोट्यस्मरणादिसिद्धसंशयाभावादेवोपपत्तेः प्रवृत्तेरिव प्रवर्तमानजातीयत्वस्याप्यासन्न सिद्धिकत्वव्याप्यत्वाद्वा । वस्तुतः शमादिलिङ्गैर पुनर्वन्धकत्वरूप योग्यतानिश्चयाद् न दोषः, अपुनर्वन्धकतानियतभवव्यवधानज्ञानस्याप्रतिबं आसन्न कालभवसिद्धिकस्य जीवस्य लक्षणमिदं तु । विषयसुखेषु न रज्यति सर्वस्थाना उद्यच्छते ॥ ३ ॥
Jain Education Intonal
For Private & Personal Use Only
सटीकः । स्तवकः । ॥ ९ ॥
॥३२९॥
www.jainelibrary.org