________________
PORNAMEERTAItatocamera
क्रियालक्षणः, कर्मग्रहणमिच्छालक्षणप्रणिधानयोगव्यवच्छेदार्थमिति ।
यदप्युक्तम्- 'अपिच, प्रथमं निर्गुणस्यैव सतो गुणावाप्तावग्रेऽपि किं गुणापेक्षया ?' इति तदपि न बन्धुरम् , पूर्वपूर्वगुणदलापेक्षयवोत्तरोत्तरगुणोपचयसिद्धेः, उपादानोपचयं विनोपादेयानुपचयात् । अत एवोत्कृष्टस्थितेराग्रन्थिप्राप्ति पूजाभिलाषादिना भवतामपि शुश्रूषादीनां न गुणत्वम् , पूर्वोत्तरभावन गुणक्रमाननुपविष्टतया फल()प्राप्तः, विषयविषाभिलापवैमुख्यहेतुलोकोत्तरभावामृतास्वादरूपतथाक्षयोपशमवृक्ष्याख्ययोग्यताकल्यात् । सत्यां च तत्त्वचिन्तायां प्रादुर्भवतामेतेषां प्रतिगुणमनन्तपापपरमाण्वपगमेन तत्त्वज्ञानफलयोगात् तत्वतो गुणत्वम् , बाह्याकातसाम्येऽपि फलभंदादुक्तविशेषोपपत्तेः । इष्यते चैतदन्यैरपि तदाहावधूताचार्य:- 'नाप्रत्ययानुग्रहमन्तरेण तत्वसुश्रूषादयः, उदकपयोऽमृतकल्पज्ञानाजनकत्वात् , लोकसिद्धास्तु सुप्तनपाख्यानगोचरा इवान्यार्थी एवं' इति । विषयतुडपहार्येव विज्ञप्त्याख्यसम्यग्दर्शनरूपं ज्ञानम् , नान्यत् , अभक्ष्यास्पर्शनीयन्यायेनाज्ञानत्वात् । तत्र विवदिषाख्या तत्त्वचिन्ता हेतुः, तत्र सुखाख्यः सानुबन्धः क्षयोपशमः, तत्र श्रद्धाख्या तच्चरुचिश्चक्षुर्गुणस्थानीया। तत्र चेहलोकादिभयप्रतिपक्षो धृत्याख्यश्चेतःस्वास्थ्यपरिणाम इति सम्यग्दर्शनगुणस्य श्रद्धादिगुणवतैवा- | वाप्तेन मोक्षोपायस्य प्रथमं निर्गुणेनैव सताऽवाप्तवं सिद्धमस्ति । श्रद्धादौ धृत्यादेविशिष्य हेतुत्वेऽपि धृत्याद्यनुगतविशिष्टगुणत्वावच्छिन्नेऽपुनर्बन्धकयोग्यताया हेतुत्वाद् न व्यभिचारः। उक्तं च भगवद्गोपेन्द्रेणापि- 'निवृत्ताधिकारायां प्रकृतौ धृतिः श्रद्धा सुखाविविदिषा विज्ञप्तिरिति तत्वधर्मयोनयः, नानिवृत्ताधिकारायां, भवन्तीनामपि तद्रूपताऽयोगात्' इति । 'न च निश्चयत
१ भवता- जायमानानामित्यर्थः ।
CANCIPAPARAN
PRATYACHAMATA
Jain Educa
e mani
For Private & Personal Use Only
www.jainelibrary.org