SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ AURAमराकारक शाखवार्तासमुच्चयः। CRICE सटीकः। स्तकः। ॥९॥ ॥३२८|| शुभभावेन-परमवीर्योल्लासननितापूर्वकरणरूपेण, निर्भिध- अतिक्रम्य, अनिवृत्तिकरणादन्तरकरणे कृते सत्यग्रे वेदनीयस्य मिथ्यात्वस्य विरलीकरणादान्तर्मुहूर्तिकं तत्-प्राग् निरूपितस्वरूपम् , दर्शनं- सम्यक्त्वम् , अवामोति । इदं च प्राथमिकमौपशमिकसम्यक्त्वमभिधीयते, मिथ्यात्वस्यानन्तानुबन्धिनां च भस्मच्छन्नाग्निवदुपशमात् । तदुक्तम् "उवसामगसेढीगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्म ॥१॥" इदमेव हि प्रथमो मोक्षोपायः; उक्तं च "यमप्रशमजीवातु बीजं ज्ञान-चरित्रयोः । हेतुस्तपः-श्रुतादीनां सद्दर्शनमुदीरितम् ॥ १॥" इति । इत्थं च यदुक्तम्- 'तथा चापकृष्टस्थितिकादिखभाववतः' इत्यादि, तन्निरस्तम् ; यथामवृत्तिकरणाद्यर्जितापकृष्टस्थिते. रभव्यादिष्वपि संभवेऽप्यपूर्वकरणादिकृताल्पकर्मस्थितेरन्यत्रासंभवात् । यदपि 'किञ्च, एवं दर्शनादेः' इत्याद्युक्तम् , तदप्ययु. |क्तम् , अपूर्वकरणादिरूपप्रयत्नसाध्यत्वाद् दर्शनस्य, मोक्ष-तदुपाययोः पुरुषकृत्यसाध्यत्वायोगात् , मल्लपतिमल्लोपमयोर्जीव-कर्मणोरेकशक्तिपराभवादन्यशक्त्युदेकात , प्राक्कर्मसामाभिभूतत्वेऽपि तदा जीवपराक्रमप्राबल्यात् । इष्यते चैतद्योगाचार्यैरपि, विशिष्टाद्यकरणादीनां प्रवृत्यादिशब्दवाच्यतया "प्रवृत्ति-पराक्रम-जया-ऽऽनन्द-ऋतम्भरभेदः कर्मयोगः" इति श्रवणात् । प्रवृत्तिश्वरमयथाप्रतिकरणशुद्धिलक्षणा, पराक्रमेण अपूर्वकरणेनेत्यर्थः, जयः- प्रतिबन्धाभिभवोऽनिवृत्तिकरणमित्यर्थः, आनन्द:सम्यग्दर्शनलाभरूपः, ऋतम्भरः- सम्यग्दर्शनपूर्वको देवतापूजनादिव्यापारः, प्रवृत्त्यादयो भेदा यस्य स तथा, कर्मयोगः 1 उपशमश्रेणिगतस्य भवत्यौपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ॥ १॥ २ विशेषाभाष्ये गाथा ५२५ । ॥३२८॥ in Education National For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy