SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तत्र मुक्तत्वप्रयोजिका सामान्यतोऽभव्यव्यावृत्ता जातिर्भव्यत्वमिति गीयते, प्रत्यात्म तथा तथापरिणामितया समुपात्तविशेषात् तथभव्यत्वमिति सिद्धम् । तथा, अलं तेन तेन द्रव्यलिङ्गाद्यवाप्तिप्रकारेण, उत्कृष्टाद्यासु - त्रिंशद् विंशति-सप्तति कोटा कोटीसागरोपममानासूत्कृष्टासु यथाप्रवृत्तिकरणाधीनग्रन्ध्यवाप्त्यवच्छिन्नासु प्रत्येकमेकसागरोपमकोटाकोटगूनासु शेषान्धिकोटाकोव्यन्तः स्थितिरूपासु च कर्मस्थितिषु - ज्ञानावरण-दर्शनावरण- वेदनीयाऽन्तराय-नाम- गोत्र - मोहनीयस्थितिपु, अतीतासु- अतिक्रान्तासु सतीषु ॥ ६ ॥ किम् ? इत्याह तद्दर्शनमवाप्नोति कर्मग्रन्थिं सुदारुणम् । निर्भिद्य शुभभावेन कदाचित्कश्चिदेव हि ॥७॥ कदाचित् - तथाभव्यत्वपरिपाककाले, कश्विदेव हि- अधिकृतो भव्यः सुदारुणं - दुर्भेदम् ग्रन्थिदेशं प्राप्तानामपि तत्मावल्या बहूनां गाढकर्मणां पुनरुत्कृष्टवन्धश्रवणात् ; उक्तं हि " “ग्रन्थिदेशं तु संप्राप्ता रागादिप्रेरिताः पुनः । उत्कृष्टवन्धयोग्याः स्युचतुर्गतिजुषोऽपि ते ॥ १ ॥” ग्रन्थि - काष्टादेरिवात्मनः सुदृढकठिन परिणामम् उक्तं हि “मंठित्ति सुदुब्भेओ कक्खडघणरूढगूढगंठि व्व । जीवस्स कम्मजणिओ घणराग-दोस परिणामो ॥ १ ॥" १ ख.ग.प.च. 'थाइलं' । २ प्रन्थिरिति सुदुर्भेदः कर्कशधनरूढगढग्रन्थिरिव । जीवस्य कर्मजनितो घनराग-द्वेषपरिणामः ॥ १ ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy