________________
शास्त्रवार्तासमुच्चयः
सटीकः । स्तबकः । ॥९॥
अपरे तु- 'मिथ्याभिनिवेशोपशमः शमः, संवेगः संसारभयम, निर्वेदो विषयेवनभिष्वङ्गः, अनुकम्पा- आत्मवत् | सर्वसत्त्वेषु सुख-दुःखयोः प्रिया-ऽप्रियत्वदर्शनेन परपीडापरिहारेच्छा, आस्तिक्यम्- भगवदुक्तसूक्ष्मातीन्द्रियभावेष्वसंभावना- विपक्षः सद्भावपरिणामः' इत्याहुरिति यथासमयं विभावनीयम् ॥५॥
यदुक्तम्- 'किं चा न सदा सर्वदेहिनाम्' इति, तदुत्तराभिधित्सयाहअनादिभव्यभावस्य तत्स्वभावत्वयोगतः। उत्कृष्टाद्यास्वतीतासु तथाकर्मस्थितिष्वलम्॥६॥
अनादिभव्यभावस्य- तत्तज्जीवसंबन्धिनोऽनादेर्भव्यत्वस्य, तत्स्वभावत्वयोगतः-प्रकृतिवैचिच्यात् । न चैतदसिद्धम् , इतरहेतूनामपि फलविशेषे योग्यताविशेषापेक्षणात, जात्यनुच्छेदेन गुणप्रकर्षाभावात , अशुद्धतायामपि जात्या- जात्यरत्नयोरिव साम्यासिद्धेः, अन्यथा तीर्थकद-ऽन्तकृत्केवलिभावादिपार्यन्तिकफलविशेषानुपपत्तेः, परम्पराहेतुबोधिलाभादेरपि तत्फलत्वात् , तत्रापि स्वभावभेदावश्यकत्वात् , 'एकत्र हेतौ स्वभावभेदो नान्यत्र' इत्यभ्युपगमे च हेतुस्वभावविप्रतिषेधाद् नियतस्वभावकार्यानुदयप्रसङ्गात् , योग्यतामनपेक्ष्य सदा शिवानुग्रहादिना तत्त्वधर्मप्राप्त्यादिफलविशेषोपगमे च सर्वसाम्यप्रसङ्गात् ।
नचैवं सत्त्वानां प्राग विशेषे मुक्तावपि विशेषः स्यादिति वाच्यम् ; कृत्स्नकर्मकार्याया मुक्तेर्हेत्वविशेषेणाविशेषात् , दरिद्रेश्वरयोः प्राग विशेषेऽप्यविशिष्टायुःक्षयकार्यमरणाविशेषवदुपपत्तेः । तज्जातीयादेव हेतोस्तजातीयं कार्यमुत्पद्यत इति परमार्थः ।
KARO
||३२७॥
For Private & Personal Use Only
www.jainelibrary.org