________________
"णर-विबुहेसरसुक्खं दुक्ख चिय भावओ अ मण्णंतो । संवेगओं ण मुक्खं मोत्तूणं किंचि पत्थेइ ॥ १॥"
निर्वेदो भववैराग्यं दुःखदौर्गत्यगहने भवकारागारे वसतस्तदुःखप्रतिकाराशक्तावपि तद् दुःखद्वेषलक्षणम् , तत्कृतभवसुखेच्छाविच्छेदलक्षणं वा ममत्वराहित्यम् । तदुक्तम्-- ___नारय-तिरिअ-नरा-ऽमरभवेसु निव्वेअओ वसइ दुक्खं । अकयपरलोअमग्गो ममत्तविसवेगरहिओ अ॥१॥"
अन्ये तु संवेग-निर्वेदयोरर्थविपर्ययमाहुः-'संवेगो भवविरागः, निर्वेदो मोक्षाभिलाषः' इति । अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा, पक्षपाते तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव । सा च द्रव्यतो भावतश्च भवति । द्रव्यतः सत्यां शक्तौ दुःखप्रतिकारेण, भावत आर्द्रहृदयत्वेन तदाह
“दैटूण पाणिणिवह भीमे भवसायरम्मि दुक्खंतं । अविसेसओऽणुकंप दुहा वि सामत्थो कुणइ ॥१॥" आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकासप्रतिपत्तिः, तदाह
"मन्नइ तमेव सच्चं णीसंकंजं जिणेहिं पन्चत्तं । सुहपरिणामो सम्म कंखाइविसुत्तिारहिओ ॥१॥" १ नर-विबुधेश्वरसौख्यं दुःखमेव भावतश्च मन्वानः । संवेगतो न मोक्षं मुक्त्वा किञ्चित् प्रार्थयते ॥१॥ २ नारक-तिर्यग-नरा.ऽमरभवेषु निर्वेदतो वसति दुःखम् । अकृतपरलोकमार्गों ममत्व विषवेगरहितश्च ॥1॥ ३ रष्ट्वा प्राणिनिवह भीमे संसारसागरे दुःखायमानम् । अविशेषतोऽनुकम्पा द्विधापि सामर्थ्यतः करोति ॥1॥ ५ मन्यते तदेव सत्यं निःशकं यजिनः प्रज्ञप्तम् । शुभपरिणामः सम्यक्त्वं काङ्गादिविसूनितारहितः॥2
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org