SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः। ॥३२६॥ सम्यक्त्वम्- आत्मनः सम्यग्भावो मिथ्यात्वमलापगमात् परमनिर्मलीभावलक्षणः । तत्त्ववेदनम्- तत्वं भगवदुक्तं वेद्यते सिटीकः। श्रद्धीयतेऽनेनेति । दुःखान्तकृत्- ग्रन्धिभेदाद् निबिडकर्मजन्यसंसारदुःखान्तकरम् । अत एव सुखारम्भः-सुखस्यारम्भो यस्मात् स्तबकः तत् । एते तस्य-दर्शनस्य, पर्यायाः- एकार्थप्रतिपादकाः शब्दाः, कीर्तिताः, सत्यपि योगे पङ्कजादिपदानां पद्मादाविव दर्शने ॥९ ॥ नियतत्वादेतेषाम् । लक्षणं चास्य शमाद्यभिव्यङ्ग्यः शुभात्मपरिणामः, तदार्षम्-"से य सम्पत्ते पसत्यसम्मत्तमोहणिज्जकम्माणुवेअणोवसम-खयसमुत्थे सुहे आयपरिणामे पण्णत्ते" इति । शमादयश्च पञ्च-शमः, संवेगः, निर्वेदः, अनुकम्पा, आस्तिक्यं चेति । तत्र शमः क्रूराणामनन्तानुवन्धिनां कषायाणामनुदयः, स च प्रकृत्या, कषायपरिणतेः कटुकफलावलोकनाद् वा भवनि, तदुक्तम् "पैयईए, कम्माणं नाऊगं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सबकालं पि ॥१॥" __ अन्ये तु 'क्रोधकण्डू-विषयतृष्योपशमः शमः' इत्याहुः । कृष्ण-श्रेणिकादौ चैतदभावेऽपि न क्षतिः, लिङ्ग विनापि लिङ्गिनो दर्शनात् । संचलनकषायोदयाद् वा कृष्णादीनां क्रोधकण्डू-विषयतृष्णे । भवन्ति हि संज्वलना अपि केचन कषायास्तीव्रतयाऽनन्तानुबन्धिसदृशविपाकवन्त इति । संवेगो मोक्षाभिलाषः, सम्यग्दृशाऽहमिन्द्रपर्यन्तसुखस्य दुःखानुपगाद् दुःखतयैव पर्यालोचनात् । तदाह १ अनया व्युत्पत्त्या 'सुखारम्भम्' इति मूलपाठेन भवितव्यं स्यात् , वाच्यलिङ्गवाद् बहुव्रीहि समासस्य । २ तच्च सम्यक्त्वं प्रशस्तसम्यक्त्वमोहनीयकर्मानुवेदनोपशम-क्षयसमुत्थः श्रुभ आत्मपरिणामः प्रज्ञप्तः । ३ प्रकृत्या, कर्मणां ज्ञात्वा वा विपाकमशुभमिति । अपराध्येऽपि न कुप्यत्युपशमतः सर्वकालमपि ॥1॥ ॥३२६ Jain Education f or For Private & Personal Use Only 1.0 www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy