SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ परिग्गहो वृत्तो" इति भगवद्वचनात्, वस्त्रादियोगित्वस्य श्रेण्यारूढे व्यभिचारित्वादिति स्मर्तव्यम् । इदं पटना कम वो दिक्पटाः ! सभासु विदितं सतामिति किमत्र भूयः श्रमैः ? | इतो जयति शासनं जगति चारु जैनेश्वरं सिताम्बरसमाश्रितं कृतधियां हितं शाश्वतम् ॥ १ ॥ तत् सिद्धमेतत्- 'गुरुवचनमनुसृतेषु चरणकरणपरायणेषु विदितनयेषु संसारभीरुषु सिताम्बरेष्वेव दर्शन-ज्ञान-चारित्रसंपत्तिरूपः परो मोक्षोपायः' इति ॥ ४ ॥ दर्शनमेवाभिष्टोतुं यथार्थान् दर्शनपदपर्यायानाह दर्शनं मुक्तिबीजं च सम्यक्त्वं तत्त्वसाधनम् । दुःखान्तकृत्सुखारम्भः पर्यायास्तस्य कीर्तिताः ॥ दर्शनं - दृश्यतेऽनेन यथावस्थितमात्मतत्वमिति । मुक्तिबीजं च - चः समुच्चये, मुक्तेः सकलकर्मनिवृत्तेः फलभूताया धर्मचिन्ताद्यङ्कुरक्रमेण वीजं सत्प्रशंसादिलिङ्गमाद्यकारणम् ; तदाहु: " वपनं धर्मवीजस्य सत्प्रशंसादि तद्गतम् । तच्चिन्ताद्यङ्कुरादि स्यात् फलसिद्धिस्तु निर्वृतिः ॥ १ ॥ चिन्ता-सत्श्रुत्य-ऽनुष्ठान-देवमानुपसंपदः । क्रमेणाङ्कुर-सत्काण्ड - नाल- पुष्पसमा मताः ।। २ ॥ फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि । पलालादिपरित्यागात् कृपौ धान्यादिवद् बुधाः ॥ ३ ॥ अत एव च मन्यन्ते तत्र भावितबुद्धयः । मोक्षमार्गक्रियामेकां पर्यन्तफलदायिनीम् ॥ ४ ॥” इति । Jain Education Innal For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy