________________
सटीकः। स्तबकः। ॥९॥
शास्त्रवाणुगाम तु" इत्यागमः, सोऽपि न श्रामण्यप्रतिपत्तिसमयभाविभगवन्नग्नत्वावेदकः, किन्तु तदुत्तरकालं रागादिदोषविप्रमुक्तत्वं समुच्चयः भगवत्यावेदयतीति । यस्त्विदानी प्रमाणानुपपत्त्यायुद्भावयन्नाचाराङ्गादिसद्भावमेव न स्वीकुरुते, सोऽतिबाह्यः, स्वक्लृप्तशा॥३२५॥ स्त्रमूलप्रवृत्तावन्धपरम्पराशङ्काया दुर्निवारत्वात् , “जो भणइ नत्थि धम्मो" इत्यादिना महापायश्चित्तोपदेशात, असंभाष्य
त्वाच तस्य।
इत्थं च तद्विनेया अपि तल्लिङ्गानुकारिण एवोचिताः' इत्यपि प्रत्युक्तम् , यादृशं गुरुलिङ्गं तादृशमेव शिष्यलिङ्गादिकम्' इति वदतां पिच्छिकादिपरिग्रहस्यान्याय्यत्वात् , भगवता तदपरिग्रहात : 'गुरुकृतमेव कर्माचरणीयम्' इति व्यामोहवतां छद्मस्थावस्थायां भगवतोपदेश-शिष्यदीक्षा-गुरुवचनाद्यनुपग्रहाद् दिग्वाससामपि तदनुपग्रहापच्या वतीर्थोच्छेदापत्तेः । तस्माचतुरातुरेण यथा वैद्योपदिष्टमेव क्रियते, न तु तत्कृतमनुक्रियते, व्याध्यनुच्छेदप्रसङ्गात् , तथा भव्येनापि धर्माधिकारिणा भगवदुक्त एव मार्गो यथाशक्त्याऽऽचरणीयः, न तु तच्चरित्रमाचरणीयम् , चक्रवर्तिभोजनलुब्धविप्रवद् विपरीतप्रयोजनप्रसङ्गादिति विभावनीयम् । अबोचाम च
“वैज्जुबदिदै ओसहमिव जिणकहियं हि तओ मग्गं । सेतो होइ सुही इहरा विवरीयफलभागी"॥ १॥ इति । इत्थं च 'न मितपटा महावतपरिणामवन्तः' इत्याद्यनुमाने हेत्वसिद्धिः, मूर्छाऽभावेन परिग्रहयोगित्वाभावात् "मुँच्छा
व्युसनत्यक्तदेहो विहरति ग्रामानुग्राम तु। २ यो भणति नास्ति धर्मः । ३ वैद्योपदिष्टमोषधामिव जिनकधितं हितं ततो मार्गम् । सेवमानो भवति सुखीतरथा विपरीतफललागी॥॥४ मूछों परिग्रह उक्तः ।
||३२५॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org