SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ परिणाम एव निश्चयत आचेलक्यपरीपहविजय इति तुल्यम् । आध्यात्मिकपरीपहविजयोपष्टम्भकत्वं चाहारो-पकरणयोस्तुल्यमिति । तदिदमवदाम "जइ चेलभोगमेत्ता ण जियाचेलयपरीसहो साहू । भुजतो अजिअखुहापरीसहो तो तुम पत्तो ॥१॥" इति । - न च सचेलकत्वेऽचेलकत्वकार्यनिर्जराविघातकत्वलक्षणं नैश्वयिकमाचेलक्यविरोधित्वम् , न वा तयवहारविघातित्वलक्षणं व्यावहारिकमपि; लोकविदितसंनिवेशपरित्यागेन जीर्ण-स्तोक-कुत्सितवत्रपरिभोगेन च सत्यपि वस्त्रे साधूनां कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्येवोपचारेणाचेलकत्वव्यवहारात ; निरुपचरितव्यवहारेण च स्कन्धाद् देवदृष्यापगमे भगवत्स्वेवाचेलकत्वव्यवस्थितरिति । एतेन 'यदि सचेलत्वमपि' इत्यादि निरस्तम्। आचेलक्यस्य मूलगुणत्वासिद्धेः, महाबतोपकारकत्वेन पिण्डविशुद्ध्यादिवत् तस्योत्तरगुणत्वात् , अन्यथोत्सूत्रोपहतेः, अव्यवस्थानाच । न च जिनेन्द्र-जिनकल्पिकादीनामपि सर्वथाऽचेलकत्वं सिद्धमस्ति, जिनकल्पिकादीनां सर्वदैव जघन्यतोऽप्युपधिद्वयस्य सद्भावात् , जिनेन्द्राणामपि प्रव्रज्यामतिपत्तिसमये देवदृष्यवस्त्रग्रहणश्रवणात् “सब्वे वि एगदुसेण णिग्गया जिणवरा चउव्वीसं" इत्याद्यागमप्रामाण्यात् । न चास्यान्यार्थत्वम् , आचाराद्यङ्गेषु तैस्तैः सूत्रैर्भगवत्येकवस्त्रग्रहणस्य श्रामण्यप्रतिपत्तिसमये प्रतिपादितत्वात् । न चैवं तदा सर्ववस्त्रपरित्यागावेदकः कश्चिदागमः श्रूयते । योऽपि “वोसट्टचत्तदेहो विहरइ गामा १ यदि चेलभोगमावान जिताचेलकपरीषहः साधुः । भुजानोऽजितक्षुत्परीषहस्ततस्तव प्राप्तः ॥ १॥ २ सर्वेऽप्येकतूप्येण निर्गता जिनवराश्चतुर्विशतिः । Facceeg मानवववववववववववववव Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy