________________
शाखवार्तासमुच्चयः ||३२४॥
सटीका। स्तबकः ॥९ ॥
"सारकखणाणुबंधो रोद्दज्झाणं ति ते मई हुजा । तुल्लमिणं देहाइसु पसत्थमिह तं तहेहावि' ॥१॥" इति ।
'रौद्रध्यानं कथं प्रशस्ता-प्रशस्तभेदेन द्विधा विभज्यते ? इति विमर्शपराहतस्त्विह गगनमेवालोकेत, संरक्षणानुबन्धे सार्थान्वेषणादिलिङ्गश्चौरादिभ्यो द्वेषः कथं प्रशस्तः स्यात् । अयमपि वृथा व्यामोहा, 'इन्मि' इत्यादिसंक्लेशप्रधानस्य तस्याप्रशस्तत्वे निवृत्त्यादिलिङ्गस्य तस्य प्रशस्तत्वात् ; 'असंक्लेशेन चौरादिकं द्वष्मि' इत्यनुभवात् । 'रागः संक्लेशविशुद्ध्यङ्गतया द्विविधः, द्वेषस्तु संक्लेशैकरूपतयेक एव' इति पुनरज्ञानमूला परिभाषा, मोक्षेच्छाया रागयोनित्वादिव संसारजिहासाया द्वेषयोनित्वात् । स्फटिके तापिच्छकुसुमोपरागस्थानीयस्य द्वेषस्याशुभैकरूपत्वात् कथं वैविध्यम् ? इति चेत् । 'जपाकुसुमोपरागस्थानीयस्य रागस्यापि शुभैकरूपत्वात् कथं द्वैविध्यम्' इति पर्यनुयोगे किमुत्तरम् । उपाधिविशेषादुपधेयविशेषवदुद्देश्यादिविशेषात् परिणामविशेषस्तूभयत्र तुल्य इति दिग् ।
यदपि 'कथं चैवमाचेलक्यपरीपहविजयः कृतः स्यात् , न हि सचेलकत्वमचेलकत्वं च न विरुद्धम्' इत्युक्तम् , तदपि तुच्छम् , यथा हि तीव्रक्षुद्वेदनादयेऽप्येषणादिदोषदुष्टमाहारमगृह्णतस्तद्दोषरहितमाहारमुपलभ्य विधिना क्षुद्वेदना प्रतिकुर्वतः क्षुत्परीपहविजयः, न तु सर्वथाऽऽहाराग्रहणेन, निरुपमधृति-संहननानां जिनानामपि तदजेतृत्वप्रसङ्गात् । तथा शीतादिवेदनाभिभूतेनापि दोषदुष्टोपधित्यागेन दोषरहितोपधिपरिभोगेन च तत्प्रतिकार आचेलक्यपरीपहविजयोपपत्तेः, न तु सर्वथा तत्परित्यागेन । अथ क्षुद्वेदनापतिपक्षः परिणाम एव निश्चयतः क्षुत्परीषहविजय इति चेत् । तर्हि शीतादिवेदनाप्रतिपक्षः 1 संरक्षणानुबन्धो रौनध्यानमिति ते मतिर्भवेत् । तुल्यमिदं देहादिषु प्रशस्तमिह तत् तथेहापि ॥१॥२ विशे० अष्ट गाथा २१।३ सप्तम्यन्तम् ।
॥३२४॥
Jan Education International
For Private
Personel Use Only
www.jainelibrary.org