________________
Jain Education in
शरीरादेरप्यधर्मोपकरणत्वात् । न च शरीरेऽप्यप्रतिवद्धानां विदितवेद्यानां साधूनां वस्त्रादिषु 'ममेदम्' इत्यभिनिवेशः, तदुक्तं वाचकमुख्येन -
“यद्वत् तुरङ्गः सत्स्वप्यारम्भे- विभूषणेष्वनभिषक्तः । तद्वदुपग्रहवानपि न सङ्गमुपयाति निर्ग्रन्थैः || १ ||” इति । अवश्यं चैतदभ्युपेयं परेणापि, अन्यथा शुक्रुध्यानाग्निना कर्मेन्धनं भस्मसात् कुर्वतः परित्यक्ताशेषसङ्गस्य केनचित् तदुपसर्गकरणबुद्ध्या भक्त्या वा वस्त्रादिनाऽऽवृतशरीरस्य परद्रव्यरतिप्रतिबन्धात् स्वात्ममात्रप्रतिबन्धो न स्यात् । अथ स्वयमात्तेन वस्त्रादिना परद्रव्यर तिर्नान्यथेति चेत् । एतत् स्वयमादानस्य तृष्णानान्तरीयकत्वे शोभते । निरस्तं चैतदधस्तात् ; अवोचाम चान्यत्र"पैरदव्वम्मि पवित्तीण मोहजणिया व मोहजण्णा वा । जोगकया हु पवित्ती फलकखा राग-दोसकया || १||" इति । कथं च स्वोपात्तवसति पुस्तकादौ न परद्रव्यरतिः १ । परस्वत्वापरित्यागादिति चेत् । कथमाहारादौ न सा ? । आध्यात्मिकस्वत्वसंबन्धाभावादिति चेत् । तुल्यमिदमन्यत्र । आहारादिकं कर्मभोगसामर्थ्यसंपादितमिति न तत्र रतिरिति चेत् । इदमप्यन्यत्र समानम् । वस्तुतो विपक्षभावनाप्रतिरुद्धं रतिमोहोदये नालम्बनमात्रात् परद्रव्यरतिरिति विभावनीयम् ।
यदपि कथं वा न तस्कारादिभ्यो वखादेः संगोपनानुसंधानेन संरक्षणानुबन्धिरौद्रध्यानावकाशः १" इत्युक्तम्, तदपि न पेशलम् ; जल-ज्वलन- मलिम्लुच श्वापदा-हि-विष- कण्टकादिभ्यः संरक्षणानुबन्धस्य शरीरेऽपि समानत्वात् । धर्मनिर्वाहार्थ : शरीरसंरक्षणानुबन्धः प्रशस्त इति चेत् । इदमन्यत्रापि सुवचम् ; तदाह भाष्यकार:
१ क. ‘म्भरणवि' । २ प्रशमरतिप्रकरणे श्लो० १४१ । ३ परद्रव्ये प्रवृत्तिर्न मोहजनिका वा मोहजन्या वा । योगकृता खलु प्रवृत्तिः फलकाङ्क्षा राग-द्वेषकृता ॥ १ ॥
national
For Private & Personal Use Only
www.jainelibrary.org