________________
शास्त्रवातासमुच्चयः
सटीकः। स्तबकः। ॥९॥
॥३२३॥
यदपि 'कथं च द्रव्यतः, क्षेत्रतः, कालतः, भावतो वा कृतपरिग्रहप्रत्याख्यानस्य वस्त्रोपादाने न पञ्चममहाव्रतभङ्गः इत्युक्तम् , तदपि मूपिरित्यागे भावतः परिग्रहप्रत्याख्यानोपपत्तावपि द्रव्यतः परिग्रहप्रत्याख्यानभङ्गाभिप्रायेण, अयुक्तश्चायमभिप्रायः, कायादिसत्त्वेऽपि तत्पत्याख्यानभङ्गप्रसङ्गात् ; द्रव्यादिविकल्पैः “से' परिग्गहे चउब्धिहे पन्नत्ते- दवओ, खित्तओ, कालओ, भावओ" इति सूत्रस्य सर्वव्यादिविषयमूर्छात्याग एवं कर्तव्य इति परमार्थात , द्रव्यादिपरिग्रहस्य नामादिपरिग्रहवदनात्मधर्मत्वेन प्रत्याख्यातुमशक्यत्वात् । तथा च भगवान् महाभाष्यकार:
___अपरिग्गहया सुत्ते त्ति जा य, मुच्छा परिग्गहोऽभिमओ । सव्वदव्वेसु ण सा कायव्वा सुत्तसब्भावो ॥१॥" इति । __एतेन द्रव्य-भावपरिणतिभेदकल्पनापि परिग्रहाथवे केषाश्चिदपास्ता, अतिक्रमा-ऽनाचारादिरूपयोरपकर्षो-स्कर्षयोर्भावाश्रवधर्मत्वादेव, तत्र चानाभोगा-ऽऽभोगादिरूपस्यात्मधर्मस्यैव विशिष्य नियामकत्वात् , द्रव्यादिपरिणतः क्षेत्रादिपरिणतेरिव तत्र वक्तुमशक्यत्वात् , आत्मा-ऽनात्मधर्मयोरसंक्रमात , 'द्रव्याश्रवसत्त्व आत्मन एव काचिद् द्रव्याश्रवपरिणतिः' इति परिभाषाया निर्मूलत्वात् । अन्यथा द्रव्यहिंसादेरनैकान्तिकच्छेदाभिधानविरोधादित्यन्यत्र विस्तरः।
___ यदपि 'कथं चैवं परद्रव्यरतिसाम्राज्ये स्वात्मप्रतिबन्धमात्रविश्रान्तश्रामण्यसमृद्धिः?' इत्युक्तम् , तदप्ययुक्तम् । परद्रव्यसंनिधानमात्ररूपाया रतेर्मुक्तावप्यनुच्छेदात् , अभिष्वङ्गरूपाया रतेस्तु धर्मोपकरणेऽभावात् , अभिष्वङ्गविषयस्य सतः
१ अथ परिप्रहश्चतुर्विधः प्रज्ञप्तः- द्रव्यतः, क्षेत्रतः, कालतः, भावतः। २ अपरिग्रहता सूत्र इति या च, सूज़ परिग्रहोऽभिमतः । सर्वद्रव्येषु न सा कर्तब्या सूत्रसद्भावः ॥१॥ ३ विशेषावश्यकेऽष्टमनिवप्रकरणे गाथा ।।
॥३२३॥
Jain Education
IRAI
For Private Personal Use Only
"www.jainelibrary.org