SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ श्वोपकारानुपपत्त्या न समत्वम् ? इति । एतेनैतद् निराकृतं यदुत्प्रेक्षितं परेण- 'साक्षाद्वस्त्रग्रहणस्य न मुक्तिसाधनत्वम् , रत्नत्रयस्यैव साक्षात् तत्साधनत्वात् , नापि परम्परया रत्नत्रयकारणत्वेन तद्ग्रहणस्य रत्नत्रयविरोधित्वात; निष्परिग्रहत्वविरोधि सपरिग्रहत्वमिति सकललोकप्रसिद्धम् , रूपज्ञानोत्पत्तेस्तम इव; न च रत्नत्रयहेतुशरीरस्थितिकारणत्वेन वस्त्रादिग्रहणं परम्परया मुक्तिसाधनम् , तदन्तरेणापि रत्नत्रयनिमित्तशरीरस्थितिसंभवात्' इति; आहारग्रहणेऽप्यस्य समानत्वेन प्रदर्शितत्वात् । विहिताहारग्रहणKO कर्मणः, उत्तरगुणरूपतया तन्नान्तरीयकाऽऽज्ञाशुद्धभावविशेषस्यैव वा पारम्पर्येण मुक्तिहेतुत्वे तु वस्त्रादिग्रहणेऽप्येवं वक्तुं शक्य स्वात् । अत एव च 'साक्षात् पारम्पर्येण वा मुक्त्यनुपयोगि वस्त्रादिग्रहणं रागाग्रुपचयहेतुः, तत् स्वीकुर्वन् यत्याभासो गृहस्थतां नातिशते' इत्याद्यपहस्तितम् आगमोक्तविधिना वस्त्रादिग्रहणस्य हिंसाद्यपायरक्षणनिमित्ततया मुक्तिमार्गसम्यग्ज्ञानाद्युपबृंहकत्वात् , तत्परित्यागस्य त्वाकालीयत्वापेक्षया तदाधकत्वात् । ततो विशेष्यसद्भावे 'सम्यग्ज्ञानाधन्वितत्वे सति' इति विशेषणमसिद्धम् , सति चास्मिन् विशेष्यमसिद्धमिति व्यवस्थितम् । तन्न रागाद्यपचयनिमित्तता परव्यावर्णितस्वरूपनग्रेन्थ्यस्य सिद्धा। अत एव न तद्विपक्षभूतत्वेन वस्त्रादिग्रहणस्य रागाद्यपचयं प्रति गमकत्वम् , तद्विरुद्धेन सम्यग्दर्शनाद्युपचयेन यथोक्तवस्त्रादिग्रहणस्य IS व्याप्तत्वेन तद्विरुद्धसाधकत्वात् । दृष्टान्तस्यापि परव्यावर्णितनैर्ग्रन्थ्यविपक्षभूतत्वासिद्धेः साधनविकलता; न च यथोक्ताङ्गना संगमादिरप्युपसगेसहिष्णोवैराग्यभावनावशीकतचेतसो योगिनो रागाद्यपचयहेतुर्भवति, ईश्वरप्रभृतिषु तस्य तत्पक्षयहतुत्वन FOशाने श्रवणात्, इति साध्यविकलतापि । न च पक्षे हेतुसिद्धिरपि, धर्मोपकरणत्वोपपत्तरिति न किश्चिदेतत् । SOTO E Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy