________________
SODIACIDIODICIDDHARMICRO
मापापयामासादESS
च कोष्ठगतस्य संसक्तिमत्त्वात् तदुत्सर्गेऽनेककृम्यादिव्यापत्तिरवश्यंभाषिनीति । अथावधानेन तत्परिभोगादिकं विदधतो न सत्त्वव्यापत्तिः, व्यापत्तौ वा शुद्धाशयस्य तद्रक्षादौ यत्नवतो गीतार्थस्य ज्ञानादिपुष्टालम्बनप्रवृत्तेरहिंसकत्वाद् न तद्ग्रहणमन्याय्यमिति चेत् । तुल्यमिदमन्यत्र । अथ वस्त्रादेर्मलदिग्धस्य क्षालनेऽप्कायादिविनाशो वा, कुशिकत्वं वा, क्षालने च संसक्तिदोष इत्युभयतः पाशा रज्जुः, इति न तद्ग्रहणं युक्तमिति चेत् । आहारादिग्रहणेऽपि तुल्यमेतत् , तदिग्धस्याऽऽस्यादेः प्रक्षालनादप्कायविनाशात् , अप्रक्षालने च प्रवचनोपघातादिति । प्रासुकोदकादिना यत्नतः प्रक्षालने दोषाभावोऽप्युभयत्र तुल्य इति ।
शुद्धाहारादिव शुद्धोपकरणादनेकगुणसंभवस्तु निरपाय एव; तथाहि- समस्तरात्रिजागरणं कुर्वतां साधूनां तुषारकणगणप्रवर्षिणि शीतकाले यतनया कल्पप्रावरणेन भवति स्वाध्यायनिर्वाहः, तथा, सचित्तपृथिवी-धूमिका-दृष्टि-अवश्यायरजा-प्रदीपतेजःप्रभृतीनां रक्षापि तैः कृता भवति तथा, मृताच्छादन-बहिर्नयनाद्यर्थ ग्लानप्राणोपकारार्थं च भवति वस्त्रस्योपयोगः, तथा, संपातिमरजोरेणुपमार्जनायर्थं मुखवस्त्रस्य, आदान-निक्षेपादिक्रियायां पूर्व प्रमार्जनार्थ लिङ्गार्थ च रजोहरणस्य, वाय्वादिनिमित्तविक्रियावल्लिङ्गसंवरणाद्यर्थं च चोलपट्टपटलादेरिति । पात्रग्रहणेऽप्यमी गुणाः; तथाहि- अनाभोगेन गृहीतानां संसक्तगोरसादीनां पात्रेणैव विधिना परिष्ठापनेन रक्षा कृता भवति, अन्यथा तु हस्त एव गृहीतास्ते क धीयेरन् ?; तथा, पात्रं विना करपुटगृहीतसरसववस्तुबिन्दुभिरधःपातिभिः कुन्थु-कीटिकादिजन्तुसंघातनेन, गृहस्थभाजनपरिग्रहे
१ क. ख. ग. घ. च. 'किये।
Jain Education Se
n a
For Private Personel Use Only
www.jainelibrary.org