SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ SODIACIDIODICIDDHARMICRO मापापयामासादESS च कोष्ठगतस्य संसक्तिमत्त्वात् तदुत्सर्गेऽनेककृम्यादिव्यापत्तिरवश्यंभाषिनीति । अथावधानेन तत्परिभोगादिकं विदधतो न सत्त्वव्यापत्तिः, व्यापत्तौ वा शुद्धाशयस्य तद्रक्षादौ यत्नवतो गीतार्थस्य ज्ञानादिपुष्टालम्बनप्रवृत्तेरहिंसकत्वाद् न तद्ग्रहणमन्याय्यमिति चेत् । तुल्यमिदमन्यत्र । अथ वस्त्रादेर्मलदिग्धस्य क्षालनेऽप्कायादिविनाशो वा, कुशिकत्वं वा, क्षालने च संसक्तिदोष इत्युभयतः पाशा रज्जुः, इति न तद्ग्रहणं युक्तमिति चेत् । आहारादिग्रहणेऽपि तुल्यमेतत् , तदिग्धस्याऽऽस्यादेः प्रक्षालनादप्कायविनाशात् , अप्रक्षालने च प्रवचनोपघातादिति । प्रासुकोदकादिना यत्नतः प्रक्षालने दोषाभावोऽप्युभयत्र तुल्य इति । शुद्धाहारादिव शुद्धोपकरणादनेकगुणसंभवस्तु निरपाय एव; तथाहि- समस्तरात्रिजागरणं कुर्वतां साधूनां तुषारकणगणप्रवर्षिणि शीतकाले यतनया कल्पप्रावरणेन भवति स्वाध्यायनिर्वाहः, तथा, सचित्तपृथिवी-धूमिका-दृष्टि-अवश्यायरजा-प्रदीपतेजःप्रभृतीनां रक्षापि तैः कृता भवति तथा, मृताच्छादन-बहिर्नयनाद्यर्थ ग्लानप्राणोपकारार्थं च भवति वस्त्रस्योपयोगः, तथा, संपातिमरजोरेणुपमार्जनायर्थं मुखवस्त्रस्य, आदान-निक्षेपादिक्रियायां पूर्व प्रमार्जनार्थ लिङ्गार्थ च रजोहरणस्य, वाय्वादिनिमित्तविक्रियावल्लिङ्गसंवरणाद्यर्थं च चोलपट्टपटलादेरिति । पात्रग्रहणेऽप्यमी गुणाः; तथाहि- अनाभोगेन गृहीतानां संसक्तगोरसादीनां पात्रेणैव विधिना परिष्ठापनेन रक्षा कृता भवति, अन्यथा तु हस्त एव गृहीतास्ते क धीयेरन् ?; तथा, पात्रं विना करपुटगृहीतसरसववस्तुबिन्दुभिरधःपातिभिः कुन्थु-कीटिकादिजन्तुसंघातनेन, गृहस्थभाजनपरिग्रहे १ क. ख. ग. घ. च. 'किये। Jain Education Se n a For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy