________________
शास्त्रवार्ता - समुच्चयः । ॥ ३२१ ।।
Jain Education Inters
तद्ग्रहणं नियम्यते । तत्र च निमित्तत्रयमपि जिनकल्पायोग्यानां निरतिशयानामधिकारिणामावश्यकम् । अथवा, हीपदार्थ : संयमलज्जा, सैव मुख्यं निमित्तम्, इतरत्तु द्वयं तदुपकारि निमित्तम्, तदुक्तं भाष्यकृता
"" विहियं सुए चिय जओ घरेज्ज तिहिं कारणेहिं वत्थं ति । तेणं चिय तदवस्सं णिरतिसरणं घरे अन्नं ॥ १ ॥
जिण कप्पाजोग्गाणं ही कुच्छ परीसहा जओऽवस्सं । ही लज्जत्ति व सो संजमो तयत्थं विसेसेणं ॥ २ ॥ ॥” इति । यदि च नैमित्तिकत्वाद् वस्त्रादिग्रहणमयुक्तमित्युद्भाव्यते, तदाऽऽहारग्रहणमप्ययुक्तं स्यात्, तस्यापि नैमित्तिकत्वात् ; तदुक्तं स्थानाङ्गे– “छेहिं ठाणेहिं समणे णिग्गंथे आहारमाहारेमाणे णाइकमइ, तं जहा, वेअण, वेयावच्चे, इरिअढाए, तह पाणवत्तिआए, छहं पुण धम्मचिंताए" इति ।
अथ ज्ञानादिपुष्टालम्बनेनादुष्टाहारग्रहणे न दोषः, वस्त्रादेस्तु मलादिदिग्धस्य यूकादिसं मूर्च्छनाने कस स्वहेतुतया तद्ग्रहणे तद्व्यापत्तेरवश्यंभावात् तद्ग्रहणमपौष्टालम्व निकत्वाद् न न्याय्यमिति चेत् । न, आहारग्रहणेऽप्यस्य दोषस्य समा नत्वात् । संभवन्त्येव ह्यागन्तुकाः संमूर्च्छनजाश्चानेकप्रकारास्तत्र जन्तवः, तत्परिभोगे चावश्यंभावी तेषां विनाशः, भुक्तस्य
१ विहितं श्रुत एव यतो धारयेत् त्रिभिः कारणैवंखमिति । तेनैव तदवश्यं निरतिशयेन धारयितव्यम् ॥ १ ॥ जिनकल्पायोग्यानांही. कुत्सा- परीपहा यतोऽवश्यम् । इलिंजेति वा स संयमस्तदर्थ विशेषेण ॥ २ ॥
२ विशेषावश्यक महाभाष्येऽष्टमनिह्नवप्रकरणे गाथा ५३, ५४ । ३ षड्भिः स्थानैः श्रमणा निर्मन्था आहारमाहरन्तो मातिक्रामन्ति, तथा - विनये, वैयावृत्ये, ईर्यार्थम्, संयमार्थम्, तथा प्राणवृस्यै, पठं पुनर्धर्मचिन्तया ॥
For Private & Personal Use Only
सटीकः । स्तबकः ।
॥ ९ ॥
॥३२१॥
ww.jainelibrary.org