________________
Jain Education Intern
कामिनीविरह संभवदुष्टध्यान संततिमपासितुमेवम् । कामिनीमपि न किं कमनीयां स्वीकुरुध्वमिति चेत्, सममेतत् ॥ ५ ॥ अन्यथा पलभुजो न कुतः स्युर्दिक्पटा उचितपिण्डभुजचेत् । प्रत्युत प्रकटतामसवृत्तेर्भावनं तत इहापि समानम् ॥ ६ ॥ सङ्गमङ्ग ! समवाप्य तरुण्याः कस्य नाम न मनः कलुषं स्यात् ? । निर्मलान्यपि जलानि न किं स्युः पङ्कसंकरवशाद् मलिनानि १ ॥ ७ ॥ व्याधयोsरसभुवो विषवल्ल्योऽभूमिका अशनयोऽगगनोत्थाः । मूर्तिमत्य इव मारणविद्याः किं न ती निगदिताः श्रुतः १ ॥ ८ ॥ तस्माद् विहिताहारवद् विहितस्योपकरणस्यापि दुर्ध्यानंहति-शुभध्यानोत्पत्तिहेतुत्वाद् युक्तं यतीनां तत्परिशीलनम् । विधवा - "" तिहिं ठाणेहिं वत्थं घरेजा, हिरिवत्तियं दुर्गछावत्तियं, परीसहवत्तियं" तथा-
""जं पिवत्थं च पायं वा केवलं पायपुंछणं । तं पि संजमलज्जहा धारंति पहरंति अ || १ ||" इत्यादि । अत्र चादग्धदहनन्यायेन यावदप्राप्तं तावद् विधेयम् इति वस्त्रधरणस्य लोकत एव प्राप्तत्वाद् ह्री-कुत्सा- परीपहनिमित्तं १ क. 'नरहितशु' । २ तच्छब्देन तरुणीपरामर्शः । ३ त्रिभिः स्थानैर्वस्त्रं धारयेत्, ह्रीप्रत्ययम् जुगुप्साप्रत्ययम्, पपिहप्रत्ययम् । ४ यदपि वस्त्रं च पात्रं वा कम्बलं पादप्रोन्नम् । तदपि संयमलज्जार्थं धारयन्ति परिद्धति च ॥ १ ॥
For Private & Personal Use Only
166666666
www.jainelibrary.org