SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः । ॥३२०॥ ये तु मूढाः संगिरते- 'असहिष्णोराहारकालेऽपि प्रमादसद्भावाद् न यथावदात्मभावना, वस्त्रादेस्तु सर्वदा संनिधाने सर्वदा प्रमादोदयाद् महदनिष्टम्' इति ते समयलेशमपि न ज्ञातवन्तः, प्रमत्तगुणस्थानवर्तिनामपि शुभयोगं प्रतीत्यात्मानारम्भत्वादिप्रतिपादनात्, विधिना भुञ्जानस्य प्रमादाभावात्, प्रमादोपलक्षिताध्यवसाय विशेषस्यैव प्रमत्तगुणस्थानपदमवृत्तिनिमित्तत्वात् । शश्वद्वस्त्रादिसंनिधानेन प्रमादोदये शश्वदतिसंनिहितेन कायेनापि तदुदये तदनुच्छेदप्रसङ्गात् । एतेन 'शश्वत् परद्रव्यसंनिधाने तद्दर्शनादात्मदर्शनप्रतिरोध:' इत्यपि प्रलपितं निरस्तम्, कायेऽप्यस्य समानत्वात् । कायदर्शनं प्रतियोगिज्ञानीभूय ध्यानिनः स्वभिन्नत्वज्ञानोपकार्येवेति चेत् । वस्त्रादिदर्शनमपि किं न तथा, अपेक्षाकारणानां प्रधानकारणायत्तत्वात् " " जे जित्ति - आय हेऊ भवस्स ते तित्तिया य मुक्खस्स" इति वचनप्रामाण्यात् । Jain Education International अथ तनुर्महतामपि दुस्त्यजा ननु तदर्थमपीह भुजिक्रिया । इति ततो महतां न पथक्षतिर्भवति यद्धलतः सकला स्थितिः ॥ १ ॥ शृणु गुणान् वहतां सुकृतस्पृशां किमुपधेर्वत दुस्त्यजताऽपि न १ । अभिनिवेशमपास्य विमृश्यतामिदमुदीरितमुज्ज्वलभावतः ॥ २ ॥ दीर्घदेहस्थितेर्हेतोराहारो दुस्त्यजो यथा । तथोपकरणं, धाष्टर्यमुभयत्र समोक्तिकम् ॥ ३ ॥ क्षुत्पीडितार्तिध्यानस्य यथा ह्यशनमौषधम् । तथा शीतादिभीतानामपि वस्त्रादिसेवनम् ॥ ४ ॥ १ ये यावन्तश्च हेतवो भवस्य ते तावन्तश्च मोक्षस्य । २ कँ. 'गुणावहता' ख. ग. घ. च. 'गुणवद्दता' । For Private & Personal Use Only सटीकः । स्तबकः । 118 11 ॥३२० ॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy