________________
ऽप्रतीतेः । न च कचिद् विक्रयमागभावविशिष्टः क्रयविनाशः, कचिद् दानादिपागभावविशिष्टः प्रतिग्रहध्वंसश्चेत्येवमननुगतं स्वत्वं वाच्यम् । अनुगतव्यवहारोच्छेदात ; अतिरिक्तधर्मेण तावदनुगमे चातिरिक्तवत्वपर्यायस्यैव वक्तुमुचितत्वात् । तथा च स्वनिरूपितस्वत्ववत्वेनैव वस्त्रादेः कनकादिवद् ग्रन्थत्वं व्यवतिष्ठत इति चेत् । न, यतिपतिगृहीतवस्त्रादौ धर्यविनियोग्यतारूपस्यातृष्णामूलस्य स्वाश्रयभिन्नाभिन्नस्य स्वत्वपर्यायस्य सत्त्वेऽपि ग्रन्थव्यवहारनिबन्धनतृष्णामूलपतिग्रहादिजन्यस्वत्वपर्यायाभावात् । अत एव 'स्वपरिभोग्यमिदं वस्त्रादि' इति यतीनां भाषा, न तु 'स्वमेवेदम्' इति । न चैदेवम् , आहारेणापि स्वीयेनैव साधर्मिकं प्रति दानाशुपग्रहसंभवाद् धर्मलाभपूर्वकप्रतिग्रहेण तत्र स्वत्वोत्पत्तेश्च कथं नाहारस्यापि ग्रन्थत्वम् । एतेन 'स्वाभेदभ्रमबलोपनीतवत्वाश्रयवस्त्रादिसवे कथमात्मस्वरूपभावना?' इत्यप्यपास्तम्, स्वाभेदभ्रमस्य सम्यग्दर्शनेनैव नाशात् , अन्यथाऽऽहारकालेऽपि कथं सुसाधूनां तत्साम्राज्यम् ।
अथ संयतस्य सकलकालमेव सकलपुद्गलाहरणशून्यमात्मानमवबुध्यमानस्य सकलाशनतृष्णाशून्यतयाऽन्तरगतपःस्वरूपानशनस्वभावभावनासिद्धय एषणादोषशून्यान्यभैक्ष्याचरणेऽपि साक्षादनाहारता; तदुक्तं प्रवचनसारे
"जैस्स अणेसणमप्पा तं पि तओ तप्पडिच्छगा समणा। अण्णं भिक्खमणेसणमध ते समणा अणाहारा ॥१॥"
इति चेत् । नन्वेवमस्य सर्वकालमेव सकलद्रव्यपरिग्रहशून्यमात्मानमवबुध्यमानस्य सकलमूर्छारहिततयाऽन्तरगतपःस्वरूपापरिग्रहस्वभावभावनामसिद्धये दोषशून्यमुपकरणं प्रतिगृह्णतोऽपि कुतो न साक्षादपरिग्रहता।
, चतुर्थ्यन्तम् । २ यस्यानेषणमात्मा तदपि ततस्तत्प्रतीच्छकाः श्रमणाः । अन्य भैश्यननेषणमथ ते श्रमणा अनाहाराः ॥१॥
JainEducational
For Private
Personel Use Only
www.jainelibrary.org