SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ कोटीपरिशुद्धाहारवद् वा नियमतः संयमोपकारकत्वादेव । 'शुभोपयोगोऽपि शुद्धोपयोगस्य च्छेद एव' इति निश्चयेऽभिनिविशमानस्य तु विना शैलेशीचरमसमयं मुक्त्याचसमयं वा न कुत्रापि संयमशुद्धिविश्रामः, शुभोपयोगे सति शुद्धोपयोगानवकाशवत् प्राच्यविशुद्धौ सत्यामप्युत्तरविशुद्ध्यनवकाशात् । न च शुद्धोपयोगरूपमेव चारित्रं सिद्धान्तितम् ,किन्तु मूलगुणविषयस्थैर्यपरिणामरूपम् , तदुपकारित्वमेव च वस्त्रादेः, इति कथं तत्सद्भावे तच्छेदः।। इत्थं च 'तुषसद्भावे तण्डुलाशुद्धिवद् वस्त्रादिसद्भाव आत्मनोऽशुद्धिः' इत्यमरचन्द्रोक्तमपि प्रत्युक्तम् , तुष-वस्त्रादेरेकरीत्याऽविशुद्धत्वापादकत्वासिद्धेः । 'तुषस्यापि विलक्षणपक्तिविरोधित्वादिरूपाशुद्धिनियमासिद्धिः, सतुषमुद्गादेः सिद्धिदर्शनात्। इत्यपि वदन्ति । स्यादेतदाहारस्य परिग्रहव्यवहारविषयत्वात् तद्विषयकमवृत्तेस्तैष्णापूर्वकत्वेऽपि वस्त्रादेरतथात्वात् तद्विषयिणी प्रवृत्तिस्तृष्णापूर्वि कैवेति । मैवम् , परिग्रहव्यवहारविषयप्रवृत्तित्वावच्छिन्नं प्रति तृष्णाया अहेतुत्वात् , अतादृशेऽपि तृणादौ शरीरानुरागार्थं प्रवृत्तेस्तृष्णामूलत्वेन व्यभिचारात् , दुष्टपत्तित्वावच्छिन्नं प्रत्येव तद्धेतुत्वात् । न च तथापि ग्रन्थव्यवहारविषयवस्त्रादिपरिग्रहे यतीनां निर्ग्रन्थत्वव्यवहारभङ्गः, विभूषादिचिर्न मूछोपात्तत्वनिश्चय एव व्युत्पन्नानां ग्रन्थव्यवहारात् , अव्युत्पन्नव्यवहारस्य चापयोजकत्वात् । सर्वथा ग्रन्थत्वमग्रन्धत्वं च न कचनापि व्यवस्थितम् , कनक-कामिन्योरपि विषघातनबुद्ध्या, धर्मान्तेवासिनीबुझ्या च परिगृह्यमाणयोग्रन्थत्वासिद्धेः । तदाह भाष्यकार: "आहारो व्व ण गंथो देहढे ति विसघायणटाए । कणां पि तहा जुबई धम्मतेवासिणी मिति ॥१॥ 1 सप्तम्यन्तम् । २ आहार इव न प्रस्थो देहायमिति विषयाबदार्थतया । कनकमपि तथा युवतिर्धान्तेवासिनी समेति ॥ १ ॥ Jain Education Internal For Private & Personel Use Only Marww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy