________________
शास्त्रवार्ता
ममुच्चयः ।
॥३१८||
भिचारात् । न च सम्यग्दर्शनादिसमन्वितपुरुषत्वे सति वस्त्राभावो हेतु:, विशेषणस्यैव तत्र समर्थत्वेनासमर्थविशेष्यत्वात् । किञ्च, वस्त्रादिधर्मोपकरणाभावे यतियोग्याहारविरह इव विशिष्टश्रुत संहननविकलानामेतत्काल भाविपुरुषाणां विशिष्टशरीरस्थितेरेवाभावाद् न सम्यग्दर्शनादिसमन्वितत्वविशेषणोपपत्तिरिति विशेष्यसद्भाव एव विशेषणसद्भावं बाधते ।
अथ वस्त्रादिपरिग्रहस्तृष्णापूर्वकः, तद्विषयकग्रहण- मोचनादिप्रक्रमस्य तां विनानुपपत्तेः । अत एव परप्राणव्यपरो - पणस्याशुद्धोपयोग सद्भावा-सद्भावाभ्यामनैकान्तिकच्छेदस्वेऽप्युपधेरशुद्धोपयोगेनैव परिग्रहसंभवादैकान्तिकच्छेदत्वमानातम् ;
तथा च प्रवचनसारकृत्-
"वदि वण हवदि बंधो मदेऽध जीवेंधकायचेहम्मि । बंधो धुवध्रुवधीदो इदि सवणा छड्डिआ सव्वं ॥ १ ॥ " इति । अत एव चैतत्र्याख्याताऽपरचन्द्रोऽप्याह- "न खलु वहिरङ्गसङ्गसद्भावे तुपसद्भावे तण्डुलगताशुद्धत्वस्येवाशुद्धोपयोगरूपस्यान्तरङ्गच्छेदस्य प्रतिषेधः" इति । तथा च तृष्णामभववस्त्रग्रहणाभावः स्वकारणनिवृत्तिमन्तरेणानुपपद्यमानो रागादिविपक्षभूतसम्यग्ज्ञानाद्युत्कर्षविधायकत्वात् कथं तद्भाववाचकत्वेनोपदिश्यते १ इति चेत् । न, साधूनां वस्त्रादिग्रहणस्य प्राप्तेष्टस्त्वत्रियोगाध्यवसाना- प्राप्ततदभिलापलक्षणार्तध्यान रूपतृष्णा पूर्वकत्वासिद्धेः, कायकृतादान-निक्षपादिचेष्टावत्, आहारग्रहणवद् वा, यथाविधिधर्मसाधनत्वमत्या साधुभिर्वस्त्रादिग्रहणात् । इत्थं च परमाणव्यपरोपणस्यानैकान्तिकच्छेदत्वेऽप्युपधेरैकान्तिकच्छेदत्वभणनं गाढाभिनिवेशगरलपानस्यैवोद्गारः, शुभोपयोगसंभविप्रमार्जनादिव्यापारकधर्मोपकरणस्य शुद्धपिण्डपुष्टशरीरवत् त्रि१ भवति वा न भवति वन्धो मतोऽथ जीवेऽन्धकायचेष्टे । दन्धो ध्रुवमुपधित इति श्रमणा अमुञ्चन् सर्वम् ॥ १ ॥
Jain Education Intional
For Private & Personal Use Only
सटीकः । स्तवकः । ॥ ९ ॥
॥३१८ ॥
www.jainelibrary.org