________________
Jain Education Internatio
इति तद्विनेया अपि तलिङ्गानुकारिण एवाचिताः । ततो न सितपटा महाव्रतपरिणामवन्तः, तत्फलसाधका वा, वस्त्र पात्रादिपरिग्रहयोगित्वात्, महारम्भग्रहस्थवदिति चेत् । अत्र ब्रूमः -
दिक्पटाः सितपटैः सह सिंहैर्वारणा अपि रणाय न सज्जाः ।
दर्शयन्तु वदनानि कथं ही ! तेन ते परिगलन्निजलज्जाः १ ॥ १ ॥
तथाहि यत् तावद् रागाद्यपचय निमित्त नैर्ग्रन्थ्य विपक्षभूतत्वेन तदुपचयहेतुत्वं वस्त्रादेरुक्तम्, तत्र नैर्ग्रन्थ्यं सर्वतो देशतो वोपात्तम् ? । आद्ये, अष्टविधकर्मसंबन्धरूपग्रन्थात्यन्तिकाभावरूपस्य तस्य मुक्तेष्वेव संभवात् कथं तस्य रागाद्यपचयहेतुता ? । न हि तदा रागादिकमेवास्ति इति किं तेनापचेयम् । इति विशेषणासिद्धो हेतुः । द्वितीयेऽपि किं सम्यग्ज्ञानादितारतम्येनोपचीयमानं भावनैर्ग्रन्थ्यं विवक्षितम् आहोस्विद् बाह्यवस्त्राद्यभावरूपम् ? । आये तथाभूतसम्यग्ज्ञानादिविपक्षत्वेन 'वस्त्रादिग्रहणस्यासिद्धेर्हेतोर्विशेष्यासिद्धता । द्वितीये वस्त्राद्यभावस्य रागाद्यपचयनिमित्तताऽसिद्धेर्हेतोर्विशेषणासिद्धता । न च वाद्यभावो रागाद्यपचयनिमित्तत्वेन सिद्ध एवेति वाच्यम्, अतिशयितरागवद्भिः पारापतादिभिर्व्यभिचारात् । न च 'पुरुषत्वे सति' इति विशेषणीयम्, वस्त्रविकलैरनार्यदेशोत्पन्नैर्व्यभिचारात् । न च 'आर्यदेशोत्पन्नपुरुषत्वे सति' इति विशेषणाद् न दोष इति वाच्यम् ; तथाभूतकामुकपुरुपैर्व्यभिचारात् । न च ' व्रतधारितथाभूतपुरुषत्वे सति' इति विशेषणाद् न दोषः, तथाभूतपाशुपतैर्व्यभिचारात् । न च 'जैनशासनप्रतिपत्तिमत्तथाभूतपुरुषत्वे सति' इति विशेषणोपादानाद् न दोषः, उन्मत्तदिगम्बरैर्व्यभिचारात् । न च 'अनुन्मत्तत्वे सति' इत्यपि विशेषणीयम्; मिथ्यात्वोपेत द्रव्यलिङ्गावलम्बिदिग्वाससा व्य
For Private & Personal Use Only
Janelibrary.org