SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः । ॥३१७॥ Jain Education SAM "ब्रह्मविदाप्रति परं ब्रह्मैव भवति" इत्यादिश्रुति स्मृतिशत स्वरसादनन्यथासिद्धत्वाच्च' इति नव्यमतमप्यपास्तम् ; प्रतिबन्धकाभावस्यापि तुच्छरूपस्यासिद्धेः, भावशुद्धिरूपस्य च चारित्ररूपक्रियापर्यवसायित्वात् ज्ञान-कर्मभ्यां द्वाभ्यामपि तत्र तत्र मुक्त्युत्पत्त्यभिधानाविशेषेऽप्येकत्रानन्यथासिद्धत्व परित्यागेन नियतपूर्ववर्तित्वमात्रार्थादरस्यान्यत्राप्यविशेषात् नियतपूर्ववर्तितावच्छेदकेन येन रूपेण कारणत्वं न व्यवह्रियते तेन रूपेणान्यथासिद्धत्वस्य व्यवहारनयेनेव निश्वयनयेनाप्यव्यव हित पूर्ववर्तितानवच्छेदक रूपेणान्यथासिद्धेरभ्युपगमादित्यन्यत्र विस्तरः । तस्माद् गुरुमनुसृतस्याशठभावस्य दर्शन- ज्ञान- चारित्रा येव परो मोक्षोपायः, एकवैकल्येऽपि फलासिद्धेरिति व्यवस्थितम् । अत्र केचन दिगम्बरडिम्भास्तर्ककर्कशमिदं निगदन्ति । हन्त ! दन्तिन इवातिमदान्धा अङ्कुशं गुरुमनादृतवन्तः ||१|| चेत् त्रयं शिवपथः श्लथ एव प्रेक्ष्यतेऽद्य भवतामभिलाषः । वाससा चरणहानिमुपेता न त्रयं सितपटा घटयन्ति ||२|| तथाहि रागाद्यपचयनिमित्तनैर्ग्रन्थ्य विपक्षभूतत्वेन तदुपचय हेतुवस्त्रादिकग्रहणं विशिष्टशृङ्गारानुषक्ताङ्गनाङ्गसङ्गादिवत् कथं न मुक्तिप्रतिकूलम् । कथं च द्रव्यतः, क्षेत्रतः, कालतः, भावतो वा कृतपरिग्रहप्रत्याख्यानस्य वस्त्रोपादाने न पञ्चममहाव्रतभङ्गः । कथं चैवं परद्रव्यरतिसाम्राज्ये स्वात्मप्रतिबन्धमात्रविश्रान्तश्रामण्यसमृद्धिः १ । कथं च न तस्क रादिभ्यो वस्त्रादेः संगोपनानुसंधानेन संरक्षणानुबन्धि रौद्रध्यानावकाशः १ । कथं चैवमाचेलक्यपरी पहविजयः कृतः स्यात् ? न हि सचेलकत्वमचेलकत्वं च न विरुद्धमिति । यदि च सचेलत्वमप्याचे लक्यमूलगुणावगुण्डितश्रामण्यं न विरुन्ध्यात्, तदा कथं जिनेन्द्र जिनकल्पिकादयः परमश्रमणा अचेला एव श्रुते प्रसिद्धाः ? । असंगतार्थमेव हि ते वस्त्रादिकं परित्यक्तवन्तः, For Private & Personal Use Only |सटीकः । स्तवकः । ॥ ९॥ ॥३१७॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy