________________
शास्त्रवार्तासमुच्चयः। ॥३१६॥
सटीकः। स्तवकः । ॥९॥
"दुःखे विपर्यासमतिस्तृष्णा वाऽवन्ध्यकारणम् । जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥१॥"
इति सौगताकूतम् । तदसत् , प्रेत्य हीनशुन्यादिगर्भेऽभिलाषासंभवात् । एवं चात्मप्रदेशात् कर्मप्रदेशानां पृथकरणरूपया निर्जरयैव व्यापारवत्त्वं कर्मणो ज्ञानस्य वा, न तु कर्मणा परेषामपि 'धर्मेण पापमपनुदति' इत्याद्येतदर्थावेदकम् ।
येऽप्याहुरुदयनमतानुसारिणः- 'कर्मणा यावदनुकूलोपसंहारकेण तत्वज्ञानमुपसंहृत्यैव मोक्षो जननीयः' इत्यावश्यकस्वात् तत्त्वज्ञानमेव कर्मणां द्वारम् । अनुमानमपि- तीर्थविशेषस्नानादीनि तत्त्वज्ञानद्वारकाणि, मोक्षजनककर्मत्वात् , यमादिवत् । न चात्र योगत्वमुपाधिः, "कथयति भगवानिहान्तकाले भवभयकातरतारकं प्रबोधम्" इत्यादिपुराणात; "रुद्रस्तारकं व्याचष्टे" इत्यादिश्रुतेश्च तत्वज्ञानद्वारा मुक्तिजनके वाराणसीमायणादौ साध्याव्यापकत्वात् । तेषां च कर्मणां सत्त्वशुद्धिद्वारा तत्त्वज्ञानहेतुत्वम् । कार्यविशेषाच न व्यभिचारः । श्रुतिरपि तत्त्वज्ञान-कर्मणोः कारणतामानं बोधयति, न तु तुल्यकक्षतया समुच्चयम्' इति तेऽपि भ्रान्ताः, हिंसामिश्रितानां स्नानादीनामीश्वरार्पणबुद्ध्यादिना सत्त्वशुद्धिद्वारा तत्वज्ञानाहेतुत्वात् । अन्यथा ब्रह्महत्या-श्येनयागादीनामपि तद्बुद्ध्या क्रियमाणानां तथात्वप्रसङ्गात् , वाराणसीप्रायणादेरपि नियमनः सत्वशुद्ध्यभावात् , बहूनामपि तत्र म्रियमाणानां रौद्रध्यानादिलिङ्गोपलम्भात् , तत उपदेशेन ज्ञानकल्पने मानाभावान् । अन्यथा तदुपदेशस्यान्येनापि संनिहितश्रोत्रेण श्रवणप्रसङ्गात् , तदेकश्रवणयोग्योपदेशे श्रद्धामात्रात् , तत्त्वज्ञानप्रतिबन्धकादृष्टनाशककर्मणां मोक्षे जनयितव्ये तत्वज्ञानद्वारकत्ववत् तत्वज्ञानस्यापि मुक्तिपतिबन्धकमारब्धनाशकयोगिप्रयत्नविशेषकर्मद्वारक
१ ख. ग. घ. च. 'दुःखवि' ।
CARROTAsa
॥३१६॥
Jain Education International
For Private & Personel Use Only
Ramniww.jainelibrary.org