________________
"असाध्यः कस्यचिद् योगः कस्यचिद् तत्त्वनिश्चयः । प्रकारौ द्वौ ततो देवो जगाद परमः शिवः ॥१॥"' इति ।
तत्तु वादद्वयस्य वास्तवत्वं शिवस्योभयपथभ्रान्तिजनकत्वेन प्रतारकता व्यञ्जयतीति न किञ्चिदेतत् । न ह्यनेकान्ताश्रयणं विना नयमतभेदादिक संगच्छत इति ।
केचित्तु ज्ञान-कर्मणोस्तुल्य(त्व)वत् समुच्चयमपि स्वीकुर्वन्ति, तथाच भास्करीयाः-'तीर्थविशेषस्नान-यम-नियमादीनां तावद् निःश्रेयसकारणत्वं शब्दवलादेवावगम्यते । तत्र तत्त्वज्ञानव्यापारकत्वं न शाब्दम् , न वान्यथानुपपत्या, तत्वज्ञानस्यापि । व्यवहितस्यादृष्टद्वारकत्वावश्यकत्वेऽत्राप्यदृष्टस्यैव द्वारत्वौचित्यात् , ज्ञानिनामपि यमादावधिकारानपायाच्च । श्रुतिरपि “अन्धं तमः प्रविशन्ति ये विद्यामुपासते, ततो भूय इव ते तमो यउ विद्यायां रतः" तथा "विद्यां चाविद्यां च" इत्यादिः "तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इति तु तत्त्वज्ञानस्यापवर्गसामग्रीनिवेशनियमपरम् , न तु वाक्यान्तरावधृ. तकारणव्युदासार्थम् । कर्मणां समुच्चयश्चात्र स्वस्वाश्रमविहितानां साधारणानां यमादीनाम् , असाधारणानामपि यज्ञादीनामीश्वरार्पणबुद्ध्या विहितानामिति न यावत्कर्मसमुच्चयानुपपत्तिदोषः' इति । तेऽपि वाह्याः परमार्थावदिनः, न हि कर्मणो ज्ञानस्य वाऽदृष्टद्वारा मोक्षजनकत्वमस्ति, कर्मद्रव्यरूपस्य तस्य संसारार्जकत्वात् । द्रव्यरूपता च तस्य 'चेतनस्य स्व-परज्ञस्य तदात्मनो हीनमातृगर्भस्थानप्रवेशस्तत्संबद्धान्यनिमित्तः, अनन्यनेयत्वे सति तत्प्रवेशा(शव)त् , मत्तस्याशुचिस्थानप्रवेशात्' इत्यादिना सिद्धा।
यत्तु गृहान्तरानुप्रवेशवद् देहाद् देहान्तरानुप्रवेशस्याभिलाषपूर्वकत्वादनन्यथासिद्धो हेतुर्न द्रव्यविशेषसाधकः, तदुक्तम्1 तस्य- अदृष्टस्य ।
DIDIOKAR
Jain Education Intbilal
I
For Private Personal Use Only
w
ine baryong