________________
शास्त्रवार्तासमुच्चयः । ॥३१५॥
पकारकतया समप्राधान्यमेव, आगमेऽप्यात्मदर्शनस्येव सम्यक्क्रियाया अपि मुक्तिहेतुत्वं सिद्धमेव । सूक्ष्मेक्षणेन तत्र प्रयोजकत्वविश्रामोऽप्युभयत्र तुल्यः । अन्तिमज्ञानक्षण इवान्तिमपुरुषव्यापारक्षणेऽपि मुक्तिजननी शक्तिस्तुल्येतिविवेकः ।
येऽपि पातज्ञ्जला योगपदाभिधेयां सम्यक्क्रियामेव मोक्षहेतुत्वेनोपयन्ति, परमार्थभूतस्य चिचस्यादर्शनेन साक्षिदर्शने निरोधातिरिक्तोपायाभावादिति तेऽपि भ्रान्ताः, सर्वज्ञस्य चित्तदर्शनार्थं समाधिव्यापारायोगात्, अन्यथा सर्वज्ञस्वभावपरित्यागादचेतनादविशेषापत्तेः । अथ निस्तरङ्गमहोदधिकल्पो ह्यात्मा, तत्तरङ्गकल्पाच महदादिपवनयोगतो वृत्तय इति तन्निराकरणेनैवात्मनः स्वरूपप्रतिष्ठेति चेत् । न, आत्मनः प्राक् तद- तत्स्वभावत्वयोरनुष्ठानवैयर्थ्यात्, विषयग्रहणपरिणामरूपाकारसंपृक्तज्ञानस्य मुक्तावप्यनपायाच्च । तस्माद् न चित्तदर्शनार्थं योगिनां समाधौ व्यापारः, किन्तु चित्तपृथकरणार्थमेव । तत्र च क्रियाया इव ज्ञानस्यापि हेतुत्वमव्याहतमेव । केवलाभोगपूर्वक एव हि योगनिरोधव्यापार इति विभावनीयम् । इत्थं च यदुक्तं वशिष्ठेन -
"aौ क्रम चित्तनाशस्य योगो ज्ञानं च राघव ! । योगश्चित्तनिरोधो हि ज्ञानं सम्यगवेक्षणम् ॥ १ ॥” इति । तदपि ज्ञान - कर्मसमुच्चयमनुरुणद्धि ।
यत्तु 'अयमस्याभिप्राय उन्नीयते मधुसूदनेन - 'प्रथमः प्रकारः मपश्च सत्यत्ववादिनाम्, द्वितीयस्त्वद्वैतवादिनाम्' इति, अत एवोक्तं तेनैव
wron
Jain Education International
For Private & Personal Use Only
सटीकः ।
स्तवकः । ॥९॥
॥३१५॥
w.jainelibrary.org