SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte विशेषापातात्, अविद्याया असवेन नित्यनिवृत्तत्वाच्चेति दिग् । 'परः' इत्यनेन ज्ञान-क्रिययोः समुच्चयेन मोक्षोपायत्वं सूचितम् | विवेचयिष्यते चात्र नयमतभेदविचारः स्वयमेव ग्रन्थकृतोपरिष्टात् । ये तु ज्ञानदुर्नयावलम्बिन औपनिषदाः 'ज्ञानमेव मोक्षोपायः, तच्च साक्षिणि कल्पितम् साक्ष्यमनृतत्वाद् नास्त्येत्र, साक्ष्येव तु परमार्थसत्, इति विचाररूपम्, योगस्तु चित्तदोषनिराकरणेनान्यथा सिद्धः' इति प्रतिजानते; तेषामुत्पन्नमात्र एव तत्त्वज्ञाने संसारोच्छेदापत्तिः । न च प्रारब्धस्याज्ञाननिवृत्तौ प्रतिबन्धकत्वाद् नायं दोष इति सांप्रतम् अज्ञान निवर्तकस्वभावस्य तवज्ञानस्य तन्निवृत्तौ प्रतिबन्धककृतविलम्वायोगात् । न हि शुक्तितत्त्वज्ञानेन रजतभ्रमे निवर्तनीये प्रतिबन्धककुतfamrat ered | श्यत एव 'पीतः शङ्खः" इत्यादौ वैत्यानुमित्यादावपि पित्तकृत्तः पीतत्व भ्रमनिवृत्तिविलम्ब इति चेत् । तथापि साक्षात्कारिभ्रमनिवृत्तौ तत्त्वसाक्षात्कारे सति प्रतिबन्धककृतो विलम्बो न दृश्यत एव । न च पराभिमतं भावरूपमज्ञानमेवास्ति इति किं तत्त्वज्ञानेन निवर्तनीयम् ? | किञ्च, मारन्धस्य प्रतिबन्धकत्वं न कारणीभूताभावप्रतियोगित्वम्, अभावस्य तुच्छत्वेन परैः कारणत्वानभ्युपगमात्, किन्तु कार्यानुकूलशक्तिविघटकत्वम् । विघटनं च नाशः कुण्ठनं वेत्यन्यदेतत् । न चैकस्यैव ज्ञानस्य मुक्तिपर्यन्तमवस्थानम् इत्यन्तितत्त्वज्ञान एव तच्छक्तिः कल्प्या, अनन्तशक्तिनाश-कुण्डनादिकल्पने गौरवात्, अन्यथेदानींतन तत्वज्ञानेऽपि तत्कल्पनं दुनिर्वारं स्यादिति गतं प्रारब्धप्रतिबन्धकत्वेन । इत्थमेव स्वीकारे च प्राच्यज्ञानवत् प्राच्यकर्मणोऽप्यन्तिमतश्वज्ञानी १ ख ग घ च 'स्य तन्नि' । For Private & Personal Use Only appdc6666666666666 www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy