________________
शास्त्रवार्ता- समुच्चयः। ॥३१४॥
सटीकः। स्तबकः। ॥९॥
यदि चैश्वर्यमेव तत् , तदाऽभिमानाधीनतया तस्य संसारविलसितत्वात् ।
'प्रकृति-तद्विकारोपधानविलये पुरुषस्य स्वरूपेणावस्थानं मोक्षः' इति सांख्यमतमपि न निर्मलसंख्यासमुज्जम्भितम , खरूपावस्थानस्य कूटस्यात्मरूपस्यासाध्यत्वात् , प्रकृत्यादिप्रक्रियायां प्रमाणाभावाच्च ।
___ 'अग्रिमचित्तानुत्पादे पूर्वचित्तनिवृत्तिर्मुक्तिः' इत्यन्येषां मतमपि कुवासनाविलसितम्, अग्रिमचित्तानुत्पादस्य प्रागभावरूपस्यासाध्यत्वात् , चित्तनिवृत्तरनुदेश्यत्वाच्च ।
'आत्महानं मुक्तिः' इति पापिष्ठमतमपि पिष्टमेव, वीतरागजन्मादर्शनन्यायेन नित्यतया सिद्धस्यात्मनः सर्वथा हातुमशक्यत्वात् , आत्महानस्यानुद्देश्यत्वाच ।
'नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिः' इति तौतातितपतमपि नातिचतुरस्रम् , एकान्ततः सुखस्य नित्यत्वे संसारदशायामपि तदभिव्यक्तिप्रसङ्गात् , सुखमात्रस्य स्वगोचरसाक्षात्कारजनकत्वनियमात् , तज्ज्ञानस्याप्यभिव्यक्तिरूपस्य नित्यत्वात्, "नित्यं विज्ञानमानन्दं ब्रह्म" इति श्रुत्या ज्ञान-सुखयोरभेदवोधनात् । अनित्यज्ञानरूपतदभिव्यक्तर्दोषाभावसाध्याया उपगमे तस्या नाशनियमेन मुक्तस्य पुनरावृत्तिप्रसङ्गात् । तदभिव्यक्तिप्रवाहस्य च शरीरादिहेत्वपेक्षां विनाऽनुपपत्तेः । उपपत्तौ वा एकस्या एव तदभिव्यक्तेदोषाभावजन्यायाः, सुखस्य च तादृशस्य तावमवस्थानौचित्यात् । एतेन 'अविद्यानिवृत्ती विज्ञान-सुखात्मकः केवल आत्मैवापवर्गः' इति वेदान्तिमतमपि निरस्तम् , ज्ञानसुखात्मकब्रह्मगो नित्यत्वे मुक्त-संसारिणोर
. स्वातन्त्र्यस्य तदाऽनुकर्षः ।
न
॥३१४॥
Jain Education Interational
For Private & Personel Use Only
HNwww.jainelibrary.org