________________
स्यात्यन्ताभावसंबन्धः, स च साध्य एव' इति तदेकदेशिमतमपि न सांप्रतम् ; दुःखसाधनध्वंसस्य दुःखात्यन्ताभावसंबन्धत्वे मानाभावात् ।
'दुःखध्वंसस्तोम एव मुक्तिः' इत्यपि केषाश्चित् तदेकदेशिनां मतं वार्तम् । स्तोमस्य कथमप्यसाध्यत्वात् ।
'आनन्दमयपरमात्मनि जीवात्मलयो मुक्तिः' इति त्रिदण्डिमतमपि न पेशलम् ; एकादशेन्द्रिय-मूक्ष्ममात्रावस्थितपश्चभूतात्मकलिङ्ग-शरीरापगमरूपलयस्य नामान्तरेण नामकर्मक्षयरूपत्वादेव । यदि चोपाधिशरीरनाशं औपाधिकजीवनाशो लयः, तदा तेन रूपेणाकाम्यत्वादपुरुषार्थत्वात् ।
'अनुपप्लवा चित्तसंततिर्मुक्तिः' इति बौद्धबुद्धिरपि न सूक्ष्मा, संततेरवस्तुत्वेनासाध्यत्वात् । न च संततिपतितक्षणानामेव पूर्वोत्तरभावेन हेतु हेतुमद्भावात् तत्साध्यत्वम् , संसारानुच्छेदप्रसङ्गात् , सर्वज्ञज्ञानचरमक्षणस्यापि मुक्तज्ञानप्रथमक्षणहेतुत्वेन तत्संततिपतितत्वात् । अथ न हेतु फलभावमात्रादेकसंततिव्यवस्था, अपि तूपादान-हेतुफलभावात न च सर्वज्ञज्ञानस्य चरमक्षण उपादानम् ; आलम्बनप्रत्ययो हि सः, समनन्तरप्रत्ययश्चोपादानमिति चेत् । न तुल्यजातीयस्योपादानत्वे मुक्तचित्त-सर्वज्ञज्ञानयोस्तुल्यजातीयतानपायात्; सर्वज्ञज्ञानचरमक्षणस्यायमुक्तचित्तानुपादानत्वे तस्यानुपादानस्यैवोत्पत्ते गराद्यप्रत्ययेऽप्युपादानानुमानोच्छेदात्, अन्वयिद्रव्याभावे बद्ध-मुक्तव्यवस्थानुपपत्तेरिति ।
'स्वातन्त्र्यं मुक्तिः' इत्यपरेषां मतमपि न क्षोदक्षमम् , तद् यदि कर्मनिवृत्तिरेव तदा सिद्धान्तसिन्धोवेव निमज्जनात् । १ सप्तम्यन्तम् । २ आहेतसिद्धान्तप्रवेशात, सिद्धसाधनादिति यावत् ।
Jain Educatio
n
al
For Private & Personel Use Only
www.jainelibrary.org