________________
शास्त्रबातो. समुच्चयः। ॥३१३॥
सटीकः । स्तबकः। ॥९॥
प्राप्तिहेतुः, मोक्षतत्त्वस्य- द्रव्य-क्षेत्र-काल-भावभेदेन शुद्धात्मस्वरूपावस्थानरूपस्य, परः- उत्कृष्टः, सर्वज्ञभाषितः- वीतरागभ- णितः, नासर्वज्ञभाषितः, अभाषितो वा।।
___अत्र 'मोक्षतत्वस्य, इति तत्वपदेनान्याभिमतमोक्षस्याभावादेव तदुपायः शशशृङ्गोपायतुल्य इति ध्वनितम् ; तथाहि'समानाधिकरणदुःखप्रागभावासहत्तिदुःखध्वंस एव मोक्षः' इति नैयायिकमतं न रमणीयम् , अतीतदुःखवद् वर्तमानदुःखस्यापि स्वत एव नाशादपुरुषार्थत्वप्रसङ्गात् । न च हेतूच्छेदे पुरुषव्यापारः, प्रायश्चित्तवदिति वाच्यम् । तथा सति दुःखानुत्पादस्य दुःखसाधनध्वंसस्यैव वा प्रयोजनत्वमसङ्गात् । न च चरमदुःखध्वंसेऽन्वय-व्यतिरेकाभ्यां तत्वज्ञानस्य प्रतियोगिवद् हेतुत्वम् , प्रतियोगिनमुत्पाद्य तेन तदुत्पादनात् , पुरुषार्थसाधनतया दुःख-तत्साधनयोरपि प्रवृत्तिदर्शनादिति वाच्यम् ; चरमत्वस्यार्थसमाजसिद्धत्वेन कार्यतानवच्छेदकत्वात् , अन्त्यदुःख उपान्त्यदुःखस्यैव हेतुत्वेन तस्य तत्त्वज्ञानेनोत्पादयितुमशक्यत्वात् , भोगेनैव कर्मणां नाशे नानाभवभोग्यकर्मणामेकभवे भोक्तुमशक्यत्वात् , तत्कर्मभोगस्य चापूर्वकर्मार्जकत्वेनानिर्मोक्षापातात् । न च तत्त्वज्ञानवलार्जितेन कायव्युहेन तत्तत्कर्मभोगाद् नानिर्मोक्ष इति सांप्रतम् , मनुजादिशरीरसचे शूकरादिशरीरोत्पादायोगात् । देवादीनां तु वैक्रियशरीरादिकर्मोदयमहिम्नैव नानाशरीरश्रवणोपपत्तेरिति ।
"दुःखेनात्यन्तविमुक्तश्चरति" इति श्रुतिस्वरसाद् दुःखात्यन्ताभाव एव मुक्तिः, दुःखसाधनध्वंस एव च स्ववृत्तिदुःख
१ सप्तम्यन्तम् ।
॥३१३॥
Jain Education International
For Private & Personal Use Only
I
www.jainelibrary.org