________________
तस्यैव-अधिकृतस्यैव कर्मणः, चित्ररूपत्वात्-विचित्रस्वभावात् , तत्-परिणयादिकम् , तथा-कादाचित्कम् , इति न fo युज्यते- न घटते, यत्- यस्मात् , तस्य-कर्मणः, उत्कृष्टाद्या-उत्कृष्टा ग्रन्थ्यवाप्त्यवच्छिन्ना, अपकर्षवती च, स्थितिः, अनेकशःबहुवारम् , जाता, 'किल' इत्याप्तवचनमेतत् ।
तथाचापकृष्टस्थितिकादिखभाववतः कर्मणो मोक्षोपायजननपरिणतिशालित्वेऽभव्यादीनामपि तल्लाभप्रसङ्गः, तेषामपि तीर्थकरादिविभूतिं दृष्टा ग्रन्थ्यवाप्तौ श्रुतसामायिकलाभश्रवणात् । किञ्च, एवं दर्शनादेः स्वभावजनितत्वेन मोक्षः पुरुषकृति
साध्यो न स्यादिति परं प्रत्युक्तं तदर्थानुष्ठानवैयर्थ्य स्वयमप्यनिवारितम् । अपि च, प्रथमनिर्गुणस्यैव सतो गुणावाप्तावग्रेऽपि Aio किं गुणापेक्षया । अपि च, सर्वमुक्तिसिद्धान्तो नास्ति जैनानाम् , तदभावे चायोग्यत्वशङ्कया कथं मोक्षोपाये प्रेक्षावतां
निराकुलप्रवृत्त्युपपत्तिः । न च शम-दम-भोगानभिषङ्गादिना मुमुक्षुचिर्न तच्छङ्कानिवृत्तिः, शमादिमचनिश्चयानन्तरं प्रवृत्तिः, प्रत्युत्तरं च शमादिसंपत्तिरित्यन्योन्याश्रयात् । एतेन 'शमादिमत्त्वेन योग्यता' इत्यपि प्रत्युक्तम् , भव्यत्वजातिभेदोपगमविरोधाच्चेत्याहनीयम् ॥ ३॥ ___ अत्र समाधानवार्तामाहअत्रापि वर्णयन्त्यन्ये विद्यते दर्शनादिकः। उपायो मोक्षतत्त्वस्य परः सर्वज्ञभाषितः॥४॥
अत्रापि- मोक्षाभाववादे, वर्णयन्त्यन्ये- मोक्षवादिनो जैनाः, विद्यते दर्शनादिका-दर्शन-ज्ञान-चारित्ररूपः, उपाय:
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org