________________
शास्त्रवार्ता
समुच्चयः । ॥३१२॥
१
अन्ये पुनः- नास्तिकप्रायाः, वदन्ति, एवं यदुत, मोक्ष एव न विद्यते परमार्थतः । कथम् ? इत्याह- उपायाभावतः - तत्माप्तिहेत्वभावात्, नित्यावाप्तत्वेऽपि तदभिव्यक्तिहेत्वभावात् । सत्युपाये किंवा न सदा सर्वकालमेव, सर्वदेहिनाम्- सर्वे - पामेव संसारिणां स उपायः १ । मोक्षवत् तदुपायस्यापि काचित्कत्व कादाचित्कत्वयोस्तुल्यः पर्यनुयोग इति भावः ॥ १ ॥
प्रस्तुतवाद्येव पराशयमाशङ्क्य परिहरति-
कर्मादिपरिणत्यादिसापेक्षो यद्यसौ ततः । अनादिमत्त्वात्कर्मादिपरिर्णत्यादि किं तथा ॥२॥
raat - मोक्षोपायः, कर्मादिपरिणत्यादिसापेक्षः, 'कर्मादि-' इत्यादिना प्रधानादिग्रहः, 'परिणत्यादि' इत्यादिना विवर्तादिग्रहः, तत्सापेक्षोत्पत्तिकः ततः- तर्हि, अनादिमत्त्वात् कर्मादेः कर्मादिपरिणत्यादि, किं तथा - किं कादाचित्कम् १, अनादेः कर्मादेः स्वपरिणत्यादावन्यापेक्षाऽभावात् ॥ २ ॥
ननु प्रधानादेर्नित्यस्यैकस्य सहकार्यपेक्षाभावेऽपि प्रवाहेणैव कर्मणोऽनादित्वात् कस्यचित् कर्मणः स्वभावतस्तथापरिणंस्यमानस्योपादानात् तथापरिणत्यादिकं न दुर्घटम्, इत्यत आहतस्यैव चित्ररूपत्वात्तत्तथेति न युज्यते । उत्कृष्टाद्या स्थितिस्तस्य यज्जातानेकशः किल ॥३॥
१ ख. ग. घ. च. 'णामादि' ।
Jain Education Intemational
For Private & Personal Use Only
सटीकः । स्तबकः । ॥ ९ ॥
॥३१२॥
www.jainelibrary.org