SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः। ॥३१॥ सटीकः । स्तबकः। स्पष्टत्वम् ; तद्विपर्ययात्तु कचिदस्पष्टत्वम् । अनुपानाद्याधिक्येन नियतवर्णसंस्थानाधवगाहनेन विशेषप्रकाशनं हि स्पष्टत्वम् ; तदुक्तम् "अनुमानायतिरेकेण विशेषप्रतिभासनम् । तद् वैशयं मतं बुदैरवेशद्यमतः परम् ॥१॥" इति । 'प्रतीत्यन्तराव्यवधानेन प्रकाशनं स्पष्टत्वम्' इति त्वीहादीनां संदेहादिभ्यः समुपजायमानत्वेन निरस्तं देवमूरिभिः। तदिह शब्दादुद्भवदात्मज्ञानं न कथमप्यपरोक्षम् , अस्पष्टत्वात् , इति केवलज्ञानरूपं सकलप्रत्यक्षवात्पदर्शनमेष्टव्यम् । तत्र च श्रवणस्य ज्ञान-विज्ञानादिक्रमेणोपयोगः, अत एवोपरतिपदार्थस्य चारित्रस्य न तदङ्गत्वम् , श्रवणस्यैव तदुपकारित्वात् । अत एव च गृहस्थानां स्त्रीणां च तत्र तत्रोक्तस्तदधिकारोऽपि संगच्छते । श्रवणादिविधिश्च मुक्त्यर्थमेव, सम्यग्दष्टिमधिकृत्य सर्वेषामपि कर्मणां तदर्थमेव विधानात् , विधिसामर्थ्यादेवेहलोकाद्यर्थनिषेधप्राप्तेः । विहितं च मुक्तिपरम्पराकारणमान्तरालिककारणोपनायकतयैव तज्जनयेदिति किं नात्मश्रवणमात्मदर्शनहेतुः स्यात् ।। उपकारिकारणं चैतत् , तेन न प्रत्येकबुद्धादीनां श्रवणाभावेऽपि ज्ञानानुपपत्तिः । न च प्राग्भवीयश्रवणादिकमेव तेषां कल्पनीयम् , मरुदेव्यादौ तदभावात् , इत्यन्यत्र समयपरमार्थविस्तरः। अपि च, स्वमतेऽपि परस्य श्रवणादिजन्यप्रतिबन्धकादृष्टनिवृत्तिरूपनिर्दोषत्वमहिमा न शब्दात् शुब्रह्मबोधे हेतुः, उत्पत्तौ प्रामाण्यस्य स्वतस्त्वभङ्गापत्तेः। ज्ञानसामान्यसामग्रीजन्यत्वं हि तत् । न चोक्तार्थवाक्यार्थप्रमाया निर्दोषत्वजन्यत्वे प्रमाणनवतावालोकालकारे द्वितीयपरिच्छेदे । POOOOOOOOOO 808 ॥३१॥ En d an teman For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy