SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः। ॥३१॥ सटीकः । स्तबकः। स्पष्टत्वम् ; तद्विपर्ययात्तु कचिदस्पष्टत्वम् । अनुपानाद्याधिक्येन नियतवर्णसंस्थानाधवगाहनेन विशेषप्रकाशनं हि स्पष्टत्वम् ; तदुक्तम् "अनुमानायतिरेकेण विशेषप्रतिभासनम् । तद् वैशयं मतं बुदैरवेशद्यमतः परम् ॥१॥" इति । 'प्रतीत्यन्तराव्यवधानेन प्रकाशनं स्पष्टत्वम्' इति त्वीहादीनां संदेहादिभ्यः समुपजायमानत्वेन निरस्तं देवमूरिभिः। तदिह शब्दादुद्भवदात्मज्ञानं न कथमप्यपरोक्षम् , अस्पष्टत्वात् , इति केवलज्ञानरूपं सकलप्रत्यक्षवात्पदर्शनमेष्टव्यम् । तत्र च श्रवणस्य ज्ञान-विज्ञानादिक्रमेणोपयोगः, अत एवोपरतिपदार्थस्य चारित्रस्य न तदङ्गत्वम् , श्रवणस्यैव तदुपकारित्वात् । अत एव च गृहस्थानां स्त्रीणां च तत्र तत्रोक्तस्तदधिकारोऽपि संगच्छते । श्रवणादिविधिश्च मुक्त्यर्थमेव, सम्यग्दष्टिमधिकृत्य सर्वेषामपि कर्मणां तदर्थमेव विधानात् , विधिसामर्थ्यादेवेहलोकाद्यर्थनिषेधप्राप्तेः । विहितं च मुक्तिपरम्पराकारणमान्तरालिककारणोपनायकतयैव तज्जनयेदिति किं नात्मश्रवणमात्मदर्शनहेतुः स्यात् ।। उपकारिकारणं चैतत् , तेन न प्रत्येकबुद्धादीनां श्रवणाभावेऽपि ज्ञानानुपपत्तिः । न च प्राग्भवीयश्रवणादिकमेव तेषां कल्पनीयम् , मरुदेव्यादौ तदभावात् , इत्यन्यत्र समयपरमार्थविस्तरः। अपि च, स्वमतेऽपि परस्य श्रवणादिजन्यप्रतिबन्धकादृष्टनिवृत्तिरूपनिर्दोषत्वमहिमा न शब्दात् शुब्रह्मबोधे हेतुः, उत्पत्तौ प्रामाण्यस्य स्वतस्त्वभङ्गापत्तेः। ज्ञानसामान्यसामग्रीजन्यत्वं हि तत् । न चोक्तार्थवाक्यार्थप्रमाया निर्दोषत्वजन्यत्वे प्रमाणनवतावालोकालकारे द्वितीयपरिच्छेदे । POOOOOOOOOO 808 ॥३१॥ En d an teman For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy